________________
(३७२) वसंतराजशाकुने-त्रयोदशो वर्गः ।
वाणिज्यसेवारणतीर्थविद्याचौर्यादिकार्येषु भवंति यात्राः॥ तासां यथा भाव्यशुभाशुभं च सम्यग्बुधो वेत्ति यथाभिदध्मः॥ १८२॥ स्थानं त्यजत्युनतमाश्रयेद्वा यात्रा भवेत्तत्र तु नान्यथा स्यात्।।प्रनेतु गत्या गमनार्थ उक्तो मौनी स्थिरस्तत्प्रतिषेधनाय ॥ १८३॥ गत्वा दिशं यामशनं गृहीत्वा प्रत्येति पिंगः श्रयति दुमं च ॥ पांथोऽपि तामेव दिशं बाजत्वा भूत्वा कृतार्थः स्वगृहानुपैति ।। १८४॥ भक्ष्यं ग्रहीतुं चलितुं विहंगस्तत्प्राप्य तत्रैव तथोपभुज्य ॥ आयाति चेतत्पथिकोऽप्युपायं भुक्ता च वित्तं गृहमभ्युपैति ॥ १८५॥
॥ टीका ॥ वाणिज्येति ॥ वाणिज्यं व्यापारः सेवा नृपादीनां रणः संग्रामः तीर्थ शत्रुजय प्रभृति विद्या शास्त्राभ्यासः चौर्य परद्रव्यापहारः इत्यादिकार्येषु नृणां यात्राः गमनानि भवंति तासां यथा भाव्यं भविष्यमाणं शुभं चकारादशुभं च सम्यग्बुधो वेत्ति तथा वयमभिदध्मः ॥१८२॥ स्थानमिति॥यदा स्थानं त्यजति उन्नतं वृक्षमाश्रयेद्वातदायात्रा भवेत् प्रश्ने कृतेऽन्यथा स्यात्तत्र गत्या गमनार्थ उक्तः मौनी स्थिरः स्यात्तदा तत्प्रतिधनाय भवति ॥ १८३ ॥ गत्वेति ॥ यां दिशं गत्वाऽशनं गृहीत्वा पिंगः प्रत्येति दुमं च श्रयति पांथोऽपि तामेव दिशं वजित्वा कृतार्थो भूत्वा स्वगृहानु पैति ॥ १८४ ॥ भक्ष्यामिति ॥ भक्ष्यं ग्रहीतुं विहंगश्चलितः तत्प्राप्य तत्रैव उपभुज्य चेदायाति तत्पथिकः तत्र धनमुपाय॑ भुक्त्वा च वित्तं गृहमभ्युपैति ॥ १८५ ॥
॥ भाषा॥
वाणिज्येति ॥ व्यापार, राजादिकनकी सेवा, चाकरी, संग्राम, तीर्थ, विद्या पढवे, चौर्यादिक कार्य इनमें मनुष्यनकी यात्रा, अर्थात् गमन होय हैं उनमें शुभ अशुभ होयवेके योग्य जैसे जानवेमें आये तैसे हम कहैहैं ॥ १८२ ॥ स्थानमिति ॥ जो पिंगल स्थानकू त्याग कर और ऊंचे वृक्षपै जायबैठे तो यात्रा होय. फिर यात्रा निष्फल नहीं जाय. प्रश्न करै तो अन्यथा होय ये शकुनगति आगमनमेंही कह्यो है जो मौनी और स्थिर होय तो यात्रादिकके निषेधके अर्थ है ॥ १८३ ॥ गत्वेति ॥ पिंगल जा दिशामें जाय भोजन लेकरके पीछो आये फिर वृक्षपै जाय बैठे तो यात्रा करववालो बाई दिशामें जायकर कृतार्थ होय करके अपने घरकू आवै ॥ १८४ ॥ भक्ष्यामिति ॥ जो विहंग भक्ष्य लेवेकं जाय
Aho! Shrutgyanam