________________
पिंगलारुते चतुःसंयोगफलप्रकरणम् ।
( ३५५ )
भौमान्नभोजोऽनिलजोऽथवा स्यादाशां प्रदर्श्य प्रतिहंति कार्यम् ॥ भवंति भौमाप्यविनाकृतानि शस्तानि वाय्वग्निनभोरुतानि ॥ ११८ ॥ कार्ये स्त्रियाः शोभनमनिजातमननिजाद्यौ मरुदंबरोत्थौ ॥ शंसंति कार्येषु शुभेषु शांतान्दीतान्भयादौ शुभदान्वदंति ॥ ११९ ॥ शांतस्वरौ पार्थिववारुणाख्यौ दीप्ता-, भिधौ पावननाभसौ तु ॥ स्यात्तैजसस्तु द्वितयावलंबी येनावितस्तस्य फलं ददाति ॥ १२० ॥ अतिप्रभूता यदमी विमिश्राः शब्दा यथासंभवमुच्यमानाः ॥ तेनात्र दिङ्मात्रकमेव तेषामुक्तं स्वरज्ञैः स्वयमन्यदूह्यम् ॥ १२१ ॥
॥ टीका ॥
भौमादिति ॥ अथ भौमान्नभोजः अनिलजो वा स्यात्तदा आशां प्रदर्श्य कार्य प्रतिहंति भौमाप्यविनाकृतानि भौमाप्यशब्दरहितानि वाय्वग्भिनभोरुतानि शस्तानि भवति ॥ ११८ ॥ कार्य इति ॥ स्त्रियाः कार्ये मिजातं शोभनं भवति मरुदंबरीत्थौ अनग्निजाद्याविति अनभिजः अभिव्यतिरिक्तःस्वरः स एव आद्यो ययोस्तौ स्वनौ कार्ये शोभनावित्यर्थः । शुभेषु कार्येषु शांताञ्छंसंति भयादौ दीप्ताच्छुभदान्वदति ११९ शांतस्वराविति ॥ पार्थिववारुणाख्यौ शांतस्वरौ पावननाभसौ दीप्ताभियौ भवतः 'तैजसस्तु द्वितयावलंची स्यात् येनान्वितः तस्य फलं ददाति ॥ १२० ॥ अतिप्रभूता इति ॥ यद्यस्मादमी विमिश्राः शब्दा यथासंभवमुच्यमाना अतिप्रभूता भवंति
॥ भाषा ॥
सिद्धिकूं प्राप्त होय ॥ ११७ ॥ भौमादिति ॥ भौमशब्दसूं आकाशनको और पवनको शब्द होय तो आशा दिखाय करके कार्यकूं नाश करे. पिंगलके अग्नि, आकाश ये शब्द किये हुये होंय तो शस्त जानने ॥ स्त्री कार्यमें अग्नि हुयो शब्द शोभन है. और अग्नि शब्द आदिमें नहीं होय पवन आकाश इनते हुये शब्द होंय तो कार्यमें शुभ है. और शुभकार्यनमें शांतशब्दनकूं श्लाघा करे हैं. और भयादिक कार्यनमें दीप्तस्वर शुभके देबेवारे कहेहैं ॥ ११९ ॥ शांतस्वराविति ॥ पिंगलाके पार्थिव वारुण ये दोनों शांतस्वर हैं. और पवनको आकाशको ये दोनों दीप्तस्वर हैं. और तेजस स्वर तो दोनोंनकूं अवलंबनकर है. तैजस जा स्वर करके युक्त होय ताको फल देवेहै ॥ १२० ॥ अतिप्रभूता इति ॥ ये मिलवांशब्द हैं जो पिंगल यथा
Aho ! Shrutgyanam
भौम आप्यविना पवन, ११८ ॥ कायें इति ॥