________________
( ३५६) वसंतराजशाकुने त्रयोदशी वर्गः। यःशब्दानां ह्रस्वदीर्घप्लुतत्वं मेदिन्यंभोवह्निवातांबरत्वम् ॥ भिन्नं खं बुध्यते निश्चयेन ज्ञानं तस्मिञ्छाकुनं सत्यमास्ते १२२॥ इति वसंतराजशाकुने पिंगलारुते संयोगस्वरप्रकरणमष्टमम्॥८॥
अथ संकीर्णप्रकरणं प्रकथ्यते । अथ संकीर्णप्रकरणसारः क्रियते परिहतविस्तरसारः॥ यत्रा- . वगते भवति स्पष्टं पिंगलमतमिदमतिशयकष्टम् ॥ १२३ ॥ अभ्यर्चितः पिंगखगो दुमाग्रमारुह्य भौमाप्यरवौ ब्रुवाणः ॥ राज्याभिषेके परदेशयाने समीहितेऽन्यत्र च सिद्धिदायी॥१२४॥
॥ टीका ॥ तेन कारणेन तेषां स्वराणां दिङ्मात्रकमेव उक्तमुन्यत्स्वरज्ञैःस्वयमुह्यम् ॥ १२१॥ य इति ॥ यः शब्दानां द्वस्वदीर्घप्लुतत्वं मेदिन्यंभोवहिवातांवरत्वं च निश्चयेन भिन्नभिन्नं बुध्यते तस्मिज्ञानं शाकुनं सत्यमास्ते ॥ १२२ ॥ । इति वसंतरानटीकायां पिंगलारुते चतुःसंयोगस्वरप्रकरणमष्टमम् ॥ ८॥ अथेति ॥ स्वरकथनानंतरं संकीर्णप्रकरणसारः क्रियते । कीदृक् परिहतविस्तरसार इति परिहतस्त्यक्तो यो विस्तरस्तेन सारः प्रधानः यस्मिन्नवगते ज्ञाते सति पिंगलमतमतिशयकष्टं स्पष्टं भवति ॥ १२३ ॥ अभ्यर्चित इति ॥ अभ्यर्चितः पूजितः पिंगखगः दुमाग्रमारुह्य भौमाप्यरवौ ब्रुवाणः राज्याभिषेके परदेशयानेऽन्यत्र
॥ भाषा॥
योग्य क्रमपूर्वक बोले तो बहुत फल देवै है. यातूं या प्रकरणमें उन स्वरनके दिशामात्र क्रम कहेहै. और विशेष स्वरकू जाने उन पुरुषनकरके आपही विचार करनो योग्य है ॥ १२१ ॥ य इति ॥ जो पिंगलके शब्दनको हस्व दीर्घ प्लुत भेद जानतो होय. और पृथ्वी, जल, अग्नि, पवन, आकाश इनके भेद न्यारे न्यारे जानता होय वा पुरुषमें शकुनको ज्ञान सत्य रहै है ॥ १२२॥ इति वसंतराजभाषाटीकायां पिंगलारुतेचतुःसंयोगफलप्रकरणमष्टमसमाप्तम् ॥८॥ ___ अथेति ॥ स्वरनके कहेके अनंतर अब संकर्णिप्रकरणको सार करूंहूं. संक्षेपकरके सार जामें ऐसे या प्रकरणकू जान जाय तो अधिक कष्ट जामें ऐसो ये पिंगलमतसों स्पष्ट होजाय ॥ १२३ ॥ अभ्यर्चित इति ॥ पूजन जाको हुयो वो पिंगल वृक्षके अग्रभागपै चढकरके भौम, आप्य ये शब्द बोले तो राज्याभिषेकमें, परदेशगमनमें और कोई वांछित कार्यमें
Aho ! Shrutgyanam