________________
पिंगलारुते त्रिसंयोगस्वर फलप्रकरणम् ।
( ३४५ )
भूजलानलखा यदि क्रमात्स्युस्तदा भवति संपदुत्तमा । अंबुभूमिदहनस्वनैः पुनः स्याच्चिरेण फलमीप्सितं नृणाम् ॥ ॥ ७६ ॥ तैजसाप्यवडिमास्त्रयो खाः स्त्रीप्रयोजनविधौ सुखावहाः ॥ मध्यमाः स्युरपरत्र ते पुनर्भगपूर्वजयदास्तथा रणे ॥ ७७ ॥ भूमिवातगगनस्वना यदि व्याहृताः शकुनिना क्रमात्तदा ॥ लभ्यते प्रथममीप्सितं फलं तस्य हानिरसुखं ततो भवेत् ॥ ७८ ॥ वातवारिवियतां रुतानि चेत्युचरत्यनुचितानि पिंगला ॥ ईप्सिते सति शुभप्रयोजने दर्श यत्यतिशयेन तद्भयम् ॥ ७९ ॥
॥ टीका ॥
भूजलेति । यदि क्रमाद्भूजलानलरवाः स्युः तदा उत्तमा संपत्संपत्तिः भवति पुनरबुभूमिदहनस्वनैौश्चिरेण नृणामीप्सित फलं भवति ।। ७६ ।। तेजसेति ॥ तेजसाप्यवडिमास्त्रयो रवाः स्त्रीप्रयोजनविधौ सुखावहा भवंति ते पुनः अपरत्र प्रयोजने मध्य माः स्युः तथा रणे भंगपूर्वा जयदाः स्युः ॥ ७७ ॥ भूमीति । यदि भूमिवातगग नस्वनाः शकुनिना क्रमेण व्याहृताः स्युः तथा प्रथममीप्सितं फलं लभ्यते ततस्तस्य हानिरसुखं च भवेत् ॥ ७८ ॥ वातेति ॥ चेद्यदि वातवारिवियतां रुतानि अनुचितानि पिंगला उच्चरति उत्पूर्वकश्वरधातुर्भाषणे प्रसिद्धः तदा शुभप्रयोजने ई
॥ भाषा ॥
भूजलानलवा इति ॥ जो क्रमते भू जल अनल ये शब्द होंय तो उत्तम संपदा होय. फिर जल, भूमि, अग्नि इन शब्दन करके मनुष्यनकूं चिरकाल में वांछितफल होय || १६ ॥ तैजसेति ॥ तैजस, आप्य, वडिम ये तीनशब्द स्त्रिनकं प्रयोजनमें तो सुखकरनेवाले हैं और प्रयोजनमें मध्यम हैं, और रणमें पहले भंग करें पीछे जय देवेवारे होंय || ७७ ॥ भूमिवातेति ॥ भूमि, वात, गगन ये शब्द पिंगलने क्रमते कहे होय तो पहले तो वांछितफल प्राप्त होय, पीछे वा फलकी हानि और असुख होय ॥ ७८ ॥ वातेति ॥ वात, जल, आकाश इनके शब्द पिंगला अनुचित उच्चारणकरै तो शुभप्रयोजनमें वांछित होय पन अधि
Aho! Shrutgyanam