________________
( ३४४) वसंतराजशाकुने त्रयोदशो वर्गः।
अन्यो ध्वनिः पार्थिवनादयोर्यो मध्यस्थितोऽसौ शुभदो विशेषात् ॥ यश्चान्ययोः कश्चन मध्यवर्ती न वापि कार्ये शुभदं तमाहुः ॥७३॥
इति पिंगलारुते द्विसंयोगस्वरफलप्रकरणं षष्ठम् ॥६॥ एवं द्वियोगा निनदा यथावत्फलं च तेषां कथितं समस्तम् ॥ अथ त्रिसंयोगसमुद्भवानां ब्रूमः फलं पिंगलजल्पितानाम् ॥७४॥ मध्यतो भवति पार्थिवाप्ययोतिजो गगनजोऽ थवा रवः॥ स्यात्तदा प्रसवतां धनक्षयो निश्चयेन मरणं च देहिनाम् ॥ ७॥
॥ टीका ॥
शुभेषु कार्येषु शुभाय प्रदिष्टाः ॥ ७२ ॥ अन्यो ध्वनिरिति ।। अन्यो ध्वनिः पार्थिवनादयोर्यो मध्यस्थितः असौ विशेषात् शुभदो भवति अनयोर्यः कश्चन मध्यवर्ती तं क्वापि कार्ये शुभदं न आहुः ॥ ७३ ॥
इति वसंतराजटीकायां पिंगलारुते दिसंयोगस्वरप्रकरणं षष्ठम् ॥ ६ ॥ एवमिति ॥ एवममुना प्रकारेण द्विसंयोगा निनादा यथावत्फल च तेषां समस्तं कथितम् । अथ पिंगलजल्पितानां त्रिसंयोगसमुद्भवानां फलं ब्रूमः ॥ ७४ ॥ मध्यत इति ॥ पार्थिवाप्ययोर्मध्यतः वातजः अथवा गगनजो रवः स्यात्तदा प्रसवतामुत्पवशीलानां देहिनां निश्चयेन धनक्षयः मरणं च स्यात् ॥ ७५ ॥
॥ भाषा ॥ देवेवारे जानने ॥ ७२ ॥ अन्यो ध्वनिरिति ॥ और कोई धनि पार्थिव नादनक मध्यमें स्थित होय तो ये विशेषकरके शुभको देवेवारो हैं. जो और ध्वनिनमें पार्थिवनाद मध्यवर्ती होय तो ये कोई कार्यमें शुभको देवेवारो नहीं कहै हैं ॥ ७३ ॥
इति पिंगलारुते दिसंयोगफलप्रकरणं षष्ठम् ॥ ६ ॥
॥ एवमिति ॥ याप्रकारकरके द्विसंयोगशब्दनके फल समस्त कहे अब पिंगलपक्षीके कहेहुये त्रिसंयोग करके हुये जे स्वर तिनके फल कहैं हैं ॥ ७४ ॥ मध्यत इति ॥ पार्थिव आप्य इन शब्दनके मध्यमें वातते हुयोशब्द होय वा गगनते हुयो शब्द होय तो प्रसवनामबालक जिनके हुये होंय उनके धनको क्षय होय और देहधारीनको मरणनिश्चयहोय ॥ ७९ ॥
Aho! Shrutgyanam