________________
( ३१६ )
वसंतराजशाकुने - द्वादशो वर्गः ।
कान पिंडे प्रथमे गृहीते तिष्ठन्त्र जेन्नापि भवेत्कृतार्थः ॥ उद्वेगशोकौ विफलः प्रवासो हानिः कलिर्वा भवति द्वितीये ॥ १७९ ॥ याम्ये रुगापद्भयमृत्यवः स्युः पिण्डे चतुर्थे विजयो रणेषु ॥ स्याद्वैष्णवेऽभीष्टमकष्टसाध्यं भवेत्प्रवासो विफलश्च षष्ठे ॥ १८० ॥ नास्तीहितं निश्चितमेव कार्य भुक्तेन यत्सिध्यति सौम्यपिंडे || संतापशोकौ विफला च यात्रा पिण्डेऽष्टमे वायसभक्षिते तु ॥ १८१ ॥
॥ टीका ॥
पिंडं गृहाण च पुनर्यथादृष्टं निमित्तं अद्य मम स्फुटं कथय ॥ १७८ ॥ काकेनेति ॥ काकेन प्रथमे पिंडे गृहीते तिष्ठन्वजेन्ना पुरुषः कृताथः स्यात् द्वितीये पिण्डे गृहीते उद्वेगशोकौ स्यातां प्रवासः यात्रा विफला स्यात् । हानिः कलिर्वा भवति ॥ १७९ ॥ याम्ये इति ॥ याम्ये तृतीये पिंडे गृहीते रुगापद्भयमृत्यवः रुग्रोगः आपत् आपत्तिः भयमृत्यू प्रसिद्धौ एते स्युः । चतुर्थे पिण्डे गृहीते रणेषु विजयः स्यात् । वैष्णवे पिंडे गृहीतेऽभीष्टम अकष्टसाध्यं स्यात् । षष्ठे पिंडे विफलः प्रवासो भवेत् ॥ १८० ॥ नास्तीति ॥ सौम्यपिंडे भुक्ते ईहितं निश्चितमेव कार्य नास्ति । यन्न सिध्यति । वायसभक्षिते पिंडेऽष्टमे सन्तापशोकौ भवतः । फलदा च यात्रा न
॥ भाषा ॥
स्वाहा ॥ ये मंत्र अभिमंत्रण को है ॥ द्रोणेति ॥ हे काक तुम या अष्टकपिंडकू निःशंक ग्रहण करो. फिर जैसो कार्य होनहार होय तैसो मोकूं निश्चय कहो ॥ १७८ ॥ ॥ काकेनेति ॥ जो काक प्रथमपिंडकू ग्रहणकर स्थित रहे वा उडजाय तो पुरुष कृतार्थ होय अर्थात् सर्वकार्य होंय, और द्वितीयपिंडकूं ग्रहण करे तो उद्वेग शोक होंय, और यात्रा विफल होय और हानि कलह होय ॥ १७९ ॥ याम्ये इति ॥ तसिरे पिंडकं ग्रहण करे तो रोय, आपदा, भय, मृत्यु ये होय और चौथे पिंडकू ग्रहण करै तो संग्राम "में विजय होय जो पाँचमो पिंड ग्रहण करे तो कष्ट करे विना अभीष्टकी सिद्धि होय और छठो पिण्ड ग्रहण करे तो यात्रा विफल होय. ॥ १८० ॥ नास्तीति ॥ सातमो पिण्ड भक्षण करे तो निश्चयही कार्य नहीं होय और जो काक आठमो पिंड भक्षण करे
Aho! Shrutgyanam