________________
काकरते यात्राप्रकरणम् । ( २९५) यात्रोद्यमे सैन्यवधाय काको दृष्टो रथेभाश्वनृमस्तकेषु ॥ आयाति यस्याभिमुखो बलस्य युद्धोद्यमे तस्य पराजयः स्यात् ॥ १०६॥ सगृध्रकंकैः कटके नृपस्य काकैः प्रविष्टैः पिशितं विनापि ॥ संयुध्यमानैररिभिः समं स्यान्महाहवः संधिरयुध्यमानैः ॥१०७॥ चिह्नध्वजच्छत्रकृताधिरोहः समु. द्यतं शत्रुबलं प्रपश्यन् ॥ आजौ जयं जल्पति भूमिपानां कृतध्वनिःक्षीरतरौ च काकः ॥ १०८॥ गतिस्वरौ वायससंप्रयुक्तौ प्राच्यां फलायोदितवैपरीत्यात् ॥ एवं जनोऽप्याचरति प्रभूतो यथोदितं तत्र तथागमार्थः॥ १०९ ॥
॥ टीका ॥
दुष्टः॥ १०५॥ यात्रोद्यम इति ॥ यात्रोद्यमे युद्धप्रयाणोद्यमे रथेभाश्वनृमस्तके काकः दृष्टश्चेत्सैन्यवधाय भवति तथा यस्य बलस्याभिमुख आयाति तस्य युद्धोद्यमे पराजयः स्यात् ॥ १०६ ॥ सगृध्रकंकैरिति ।। सगृध्रकंकैकाकैर्नृपस्य कटकेपि. शितं विनापि मांसं विनापि प्रविष्टैः सगृध्रककैः काकै सद्भिःसंयुध्यमानैः अरिभिः समंमहाहवःस्यात् तथायुध्यमानैस्तैररिभिःसंधिःस्यादित्यर्थः॥१०७॥ चिह्नति ॥ चिह्नध्वजच्छत्रोत तत्र चिहं शस्त्रादिध्वजःप्रतीत छत्रमातपवारणम् एतेषु कृतः अधिरोहो येन स तथा एवंविधः काकः समुद्यतं शत्रुवलं प्रपश्यन्भूमिपानामाजौ युद्ध जयं जल्पति तथा क्षीरतरौ कृतध्वनिर्जय वक्ति ॥ १०८ ॥ गतिस्वराविति ॥ वायससंप्रयुक्तौ काकरितो गतिखरौ प्राच्यां दिशि उदितवैपरीत्यात्फलाय भवतः तत्र यथागमार्थस्तथोदितं प्रभूतोऽपि सर्वोऽपि जनः एवमाचरतीत्यर्थः ॥ १.९॥
॥ भाषा ॥ यात्रोद्यम इति ॥ यात्राके उद्यममें जो काक रथ, हाथी, घोडा, मनुष्य इनके मस्तकनपै बैठो दीखे तो सेनाको वध होय. और जा सेनाके सम्मुख काक आवे तो ताको युद्धमें पराजय होय ॥ १९६ ॥ सगृध्रकंकैरिति ॥ राजाकी सेनामें मांस विना गीध, कंक, काक ये प्रवेश करें तो युद्धकर रहे वैरीनकरके महान् संग्राम होय. और जो युद्ध न करते होय तो मिलापहोय जाय ॥ १०७ ॥ चिह्नति ॥ शस्त्रादिक, ध्वजा, छत्र इनपै बैठो होय उद्यत हुई शत्रुन्नकी सेना माऊकू देखतो होय तो राजानकं जय कहै है. और दूधके वृक्ष वटादिकनपै बोलै तो जय होय ॥ १०८ ॥ गतिस्वराविति ॥ पूर्व दिशामें काककी
Aho ! Shrutgyanam