________________
( २९४ )
वसंतराजशाकुने - द्वादशो वर्गः ॥
तुंडेन पुच्छं विलिखन्स्वरेण तीव्रेण यो रौति निरीक्षतेऽर्कम् ॥ एकेन पादेन तथोपविष्टो ब्रूते स बन्धं पुरतो जनस्य ॥१०२॥ विड्गोमये न्यस्यति यस्य मूर्ध्नि तस्यातुलत्रास रुजौ भवेताम् ॥ यस्यास्थिखंडं विसृजत्यसौ तु प्रयाति तृर्ण नगरों यमस्य ॥ १०३ ॥ त्रह्मप्रदेशे विरुवन्यियासोः कलत्रदोषं जनयत्यवश्यम् ॥ मनुष्यमातंगतुरंगमाणां शिरोऽधिरूढो निधनाय तेषाम् ॥ १०४ ॥ नदीतटे वाथ रटन्नटव्यां खरस्वरैर्व्याघ्रभयाय गंतुः ॥ नैवातुरः क्वापि मतो हिताय न हृष्टचेष्टः क्वचिदेव दुष्टः ॥ १०५ ॥
॥ टीका ॥
तुंडनेति ॥ तुंडेन मुखेन पुच्छं विलिखस्तीत्रेण स्वरेण यो रौति पुनरर्के निरीक्षते तथा एकेन पादेन उपविष्टः स पुरतो जनस्य बन्धे ब्रूते ॥ १०२ ॥ विड्गोमये इति ॥ काकः यस्य मूर्ध्नि विड्गोमये न्यस्यति तस्य अतुलत्रासरुजौ अनुपमत्रासरोगी भवतां तथा यस्य मूर्ध्नि अस्थिखंडं विसृजति असौ नरः यमस्य नगरी तूर्ण प्रयाति मृत्युं प्राप्नोतीत्यर्थः ॥ १०३ ॥ ब्रह्मेति ॥ यियासोतुमिच्छार्नरस्य ब्रह्मप्रदेशे मस्तक पर आकाशे विरुवन्काकः अवश्यं कलत्रदोषं जनयति तथा मनुष्यमातंगतुरंगमानां शिरोऽधिरूढः तेषां मनुष्यादीनां निधनाय भवति ॥ १०४ ॥ नंदीति ॥ नदीतटे अटव्यां वा खरस्वरै रटन्काकः गंतुः व्याघ्रभयाय भवति तथा क्वापि यत्र कुत्रापि आतुरः काकः तुर्हिताय न मतः अपि च हृष्टचेष्टः क्वचिदेव क्वचिदपि न ॥ भाषा ॥
ताडन करे और तीस्वर करके बोले फिर सूर्यकूं देखतो होय और एक पांवकर बैठो होय तो अगाडीते अगाडी काऊ जनको बंधन करे ॥ १०२ ॥ विड्गोमये इति ॥ जाके मस्तकपै काक विट् गोबर पटक देवे तो वा पुरुषकूं बहुत त्रास और रोग होय. और जाके मस्तकपै हाडको टूक पटक देवे तो वो पुरुष शीघ्र ही मृत्युकूं प्राप्त होय ॥ १०३ ॥ ॥ ब्रह्मेति ॥ गमनकर्त्ता के मस्तक के ऊपर आय आकशमें स्थित होय बोले तो स्त्री दोष प्रगट करे. और मनुष्य, हाथी, घोडा इनके मस्तकपे बैठे तो इनके ही नाशके अर्थ होय ॥ १०४ ॥ नदीति ॥ नदी के तटपे वा मार्ग में काक तीव्रस्वर बोले तो गंता पुरुषकूं. व्याघ्रको भय होय और जो आतुर पुरुष होय तो कदापि हित नहीं होय ॥ १०९ ॥
Aho ! Shrutgyanam