________________
( १६८ )
वसंतराजशाकुने - सप्तमो वर्गः ।
तेनैकस्मिन्सर्वजाते निमित्ते यादृग्येषां प्राणचारोऽभ्युदेति ॥ तादृक्तेषां स्यात्फलं मानवानां नैकाकारो हंसचारस्तथा हि || ॥२१२॥ कस्यापीडा कस्यचिद्भानुनाडी कस्याप्येते नाडिके द्वे वते ॥ कस्याप्यंतयति कस्यापि बाह्यं घोणायंत्रप्रेरितो मातरिश्वा ||२१३ || श्यामाचारे हंसचारेण साकं यस्याभ्यासो वेच्यसौ कर्मपाकम् | जानात्येकं यो द्वयस्यास्य मध्यातस्मिन्नास्ते शाकुनज्ञानसंपत् ॥ २१४ ॥ इंति पोदकीरुते हंसचारप्रकरणमष्टमम् ॥ ८ ॥ ॥ टीका ॥
रीत्यं शस्यते मिश्रत्वे फलं मिश्रमेव स्यात् ॥ २११ ॥ तेनेति ॥ तेन कारणेन एकस्मिन्नेव निमित्ते जाते यादृङ्मानवानां प्राणसंचारः अभ्युदेति तेषां मानवानां तादृक्फलं स्यात् । यस्मात्कारणात् हंसचारो नैकाकारोऽस्ति तथाहीति तदेव दर्शयति ॥ २१२ ॥ कस्यापीति ॥ कस्यापि इडा वहति कस्यचिद्भानुनाडी वहति कस्याये द्वे वहेते घोणायंत्रप्रेरितो नासिकाप्रेरितः मातरिश्वा कस्याप्यंतर्याति कस्यापि बाह्यम् ॥ २९३ ॥ श्यामेति ॥ हंसचारेण साकं श्यामाचारे यस्याभ्यासो वर्तते असौ कर्मपाकं वेत्ति अस्य द्वयस्य मध्याद्य एकं वेत्ति तस्मिन् शाकुनज्ञानसंपदास्ते तिष्ठतीत्यर्थः ॥ २१४ ॥
इति शत्रुंजयकरमोचनादिसुकृतकारिभिर्महोपाध्यायश्रीभानुचंद्रगणिभिर्विचितायां वसंतराजटीकार्या पोदकीरुते हंसचारप्रकरणमष्टमम् ॥ ८ ॥ ॥ भाषा ॥
तेनेति ॥ एककार्य में मनुष्यनको प्राण वायु जैसो जैसो चलतो होय तैसोही फल होय जासूं ये प्राणवायु सबनको एकसो नहीं चलै है ॥ ११२ ॥ कस्यापीति ॥ काऊपुरुषकी चंद्रनाडी वह है काऊकी सूर्यनाडी चलैहै काऊकी दोनों नाडी चलें हैं नासिकायंत्रकरके प्रेरोहुयो पवन काऊपुरुष के भीतर प्रवेशकर है काऊके बाहर निकसे है यह श्वास सबनको एकसोनहीं चलैहै ॥ २१३ ॥ श्यामेति ॥ हंसचार जो इडा पिंगलाको चलनो या करके सहित जो श्यामा चारमें जाको अभ्यास होय वो कर्मपाककूं जाने है और जो पुरुष इन दोनोंनमेंस एकहीकूं जानतो होय तो वो पुरुष शाकुनमें यथार्थपूर्ण नहीं होय ॥ २१४ ॥
॥ इति श्रीवसंतराज भाषाटीकायां पोदकरुिते हंसचारप्रकरणमष्टमम् ॥ ८ ॥
Aho! Shrutgyanam