________________
पोंदकीरुते राज्याभिषेकप्रकरणम् ।
: (१६९ )
स्यान्मर्यादा नैव वर्णाश्रमाणां मात्स्यो न्यायश्चापलादुःखदायी ॥ राज्ञो भावात्तेन राज्याभिषेकं सम्यग् मो ब्रह्मपुत्रीरुतेऽस्मिन् ॥ २१५ ॥ वामस्वरा दक्षिणगा सुचेष्टा स्थानं दिशं च श्रयति प्रशांतम् ॥ यस्याभिषेके शकुनैकदेवी स सार्वभौमो भवतीह भूपः ॥ २१६ ॥ निवर्तमानस्य च तोरणांताद्वामं व्रजेद्दक्षिणनिःस्वना चेत् || दिग्भागचेष्टास्थितिशांतरूपं चिरं स्थिरं तद्भवतीह राज्यम् ॥ २१७ ॥
॥ टीका ॥
स्यादिति ॥ राज्ञोऽभावे वर्णाश्रमाणां मर्यादा न भवति । तत्र वर्णाः ब्राह्मण क्षत्रियवैश्यशूद्राः चत्वार आश्रमाः ब्रह्मचारी गृही वानप्रस्थो भिक्षुरिति क्रमात्तेषां मर्यादा स्वस्वानुष्ठान विधिर्न भवति । तथा मात्स्यो न्यायः मत्स्यगलांगुलिइति लोके प्रसिद्धः आपतेत् न्यायकर्तुरभावेन दुर्नीतिपथप्रवृत्तेः न्यायः कीदृग्दुःखदायी प्रांते दुःखप्रद इत्यर्थः । राज्ञो लाभे तन्न स्यात् तेन कारणेन ब्रह्मपुत्रीरुते सम्यग्राज्याभिषेकं ब्रूमः ॥ २१५ ॥ वामेति ॥ यस्याभिषेके शकुनैकदेवी वामस्वरा सती दक्षिणगा भवति कीदृशी सुचेष्टा शुभचेष्टा । पुनः प्रशांतं स्थानं दिशं च श्रयति स भूपः सार्वभौमो भवति ॥ २१६ ॥ निवर्तमानस्येति ॥ यदा तोरणांतानिवर्तमा नस्य दक्षिणविना चेद्वामं व्रजेत् । वामं कीदृशं दिग्भागचेष्टास्थितिशांतरूपमिति
।। भाषा ॥
स्पादिति ॥ जो राजा राज्यमें नहीं होय तो ब्राह्मण, क्षत्रिय, वैश्य, शूद्र ये चारों वर्ण और ब्रह्मचारी, गृहस्थी, वानप्रस्थ, संन्यास ये चारों आश्रम और इनकी मर्यादा नष्ट होय जाय न्याय कर्ता नहीं होय तब दुर्नीतिके न्याय दुःख के देबेवारे होय. ताकारणकर पोदकीके शब्द में राज्याभिषेक हम कहें हैं ॥ २१५ ॥ वामेति ॥ जा राजाके अभिषेक शकुनकी एकही देवी जो पोदकी सो वामभागमें शब्दकर दक्षिणभागमें आय जाय और शुभचेष्टा करे शांतस्थानमें वा शांतदिशामें स्थितहोय तो वो राजा चक्रवर्ती होय ॥ २१६ ॥ निवर्तमा नस्येति ॥ जो शकुन देखबेवालो तोरणके अंतमेंसूं बगदके आवे तब चाके पोदकी जेमने भागमें शब्दकरे फिर वामभागमें आय शांतदिशा में वा शांत चेष्टाकरै वा शांतस्थानमें स्थित
Aho! Shrutgyanam