________________
पोदकीरुते शांतमकरणं द्वितीयम् । (१११) उक्तानि नामानि दिशामिमानि फलान्यथासां प्रतिपादयामः ॥ दिशि ज्वलंत्यां मरणं रणे स्यात्संधुक्षितायां सकलार्थनाशः ॥ ४३ ॥ छायाजलाकर्दमितासु दिक्षु जयो धरित्र्यां कथितोऽर्थलाभः॥स्याद्भस्मितांगारितयोर्दिशोस्तुजीवप्रणाशः शकुनोदयेन ॥४४॥ अन्यत्र सक्रांतिचतुष्टयात्तु भेदः स्वबुद्ध्या ककुभां विभाव्यः ॥ चलो रविः शश्वदुपैति याति तस्मादसौ सोमयमाधिवासे ॥४५॥
॥ टीका ॥
ततः अन्यथाजला। ततः कर्दमिता। ततो धरित्री।ततो भस्मान्विता तथा अंगारवती ॥४२॥ उक्तानीति ॥ दिशामिमानि नामानि उक्तानि कथितानि अथासां फलानि वयं प्रतिपादयामः कथयामः।ज्वलंत्यां दिशिशकुनोदयेन रणे मरणं स्यात् संक्षिः तायांशकुनोदयेन सकलार्थनाशः स्यात् ॥ ४३॥ छायति ॥ छायाजलाकर्दमितासु दिक्षु शकुनोदयेन जयः स्यात् । धरित्र्यामर्थलाभः कथितःभस्मितांगारितयोर्दिशोः शकुनोदयेन जीवप्रणाशः स्यात् ॥ ४४ ॥ अन्यत्रेति ॥ संक्रांतिचतुष्टया पूर्वोक्ता दन्यत्र अष्टम संक्रांतिषु ककुभां दिशां भोगः रवेरिति शेषः । स्वबुद्धया विभाव्य विचार्य यस्माचलो रविःशश्वनिरंतर सोमयमाधिवासे सोमश्चंद्रो यमः कृतांतः अनयोद्धः एतयोरधिवसनं अधिवासो ययोस्ते तथोक्ते दिशौ उत्तरदक्षिणे
॥भाषा॥
उक्तानीति ॥ दिशानके नाम कहे अब दिशानके फल कहै हैं ज्वालिनी दिशामें शकुन को उदय होय तो रणमें मरे, और संधुक्षितादिशामें शकुन होयतो सकल अर्थको नाश होय ॥ ४३ ॥ छायेति ॥ छाया जला कर्दमिता इन दिशानमें शकुन होय तो जय होय,
और धरित्रीमें होयतो अर्थ लाभ होय, और भस्मिता अंगारिता इन दिशानमें शकुनको उदय होय तो जीवको नाश होय ॥ ४४ ॥ अन्यत्रेति ॥ पूर्व कह्या ये चार संक्रांति इनते और जो आठ संक्रांति तिनमें दिशानको भेद सूर्यसूहै सो अपनी बुद्धिसूं विचारकरके सूर्य चलै है सो निरंतर उत्तर दक्षिणमें प्राप्त होय है ताते और दिशानमें फिर एतेही
Aho! Shrutgyanam