________________
( ११२) वसंतराजशाकुने-सप्तमो वर्गः। दिकालचेष्टागतिभावशब्दस्थानैः शुभैः सप्तविधःप्रशान्तः॥ भवेत्पुनस्तैरशुभैः समस्तैः सप्तप्रकारःशकुनः प्रदीतः॥४६॥ अभस्मितायाः ककुभः प्रशस्ता विष्टयादिदोषै रहितश्च कालः ॥ अवामचेष्टागतिरप्यवामा भवेत्प्रसन्नो मधुरो विरावः ॥४७॥ स्थानं मनोहारि तदेतदेवं सप्तप्रकारं कथयंति शांतम् ॥ सप्तप्रभेदं पुनरेतदेव वदन्ति दीप्तं विपरीतभावात् ॥४८॥
। टीका ॥
उपैति आगच्छति याति ततोऽन्यत्र दिक्षु यांतीति भावः॥४५॥अथ दशप्रकारेषु शांतदीप्तेष सप्तानामेवात्र सोपयोगित्वात् तानेवाह ॥ दिक्कालेति ॥ दिक्कालचेष्टाः गतिभावशब्दस्थानः शुभैः सप्तविधः प्रशांतः स्यात्पुनस्तैरशुभैः समस्तैः सप्तविधः शकुनः प्रदीप्तो भवेत् ॥ ४६॥ अभस्मिताद्या इति ॥ भस्मितादिवर्जिताः ककुभः पंच दिशः सर्वकालं सदैव प्रशस्ताः शांता इत्यर्थः ।विष्टयादिदोषैः रहितश्च काला. प्रशांत इत्यर्थः। विष्टिस्वरूपं त्वेवम्। 'कृष्णे च त्रिदशा रात्रौ दिवा सप्त चतुर्दशी॥ एकैकतिथिवृद्ध्या तु शुक्ले विष्टिः प्रकीर्तिता' ॥ इति । आरंभसिद्धयादी अवामा चेष्टा दक्षिणा चेष्टा प्रशांता गतिरप्यवामा दक्षिणां प्रशांता भावोऽध्यवसायः प्रसन्नः प्रशांतः विरावो ध्वनिः मधुरः अक्रूरः प्रशांतः ॥ ४७ ॥ स्थानमिति ॥ मनोहारि स्थानं शांतं तदेवं पूर्वोक्तप्रकारेण सप्तविधं शांतं कथयंति
॥ भाषा ॥
जाननो ॥ ४५ ॥ दिक्कालेति ॥ दिशा काले चेष्टा गति भाव शब्दस्थान ये शुभ होय तो इन करके सात प्रकारको प्रशांत होयहै औरः पुनः ते अशुभ होय तो इंन करके सात प्रकारको शकुन प्रदीप्त होय है ॥ ४६॥ अभस्मिताद्या इति ॥ भस्मितादिक करके वर्जित पांचों दिशा तिनकी शांतासंज्ञाहै, और भद्रादिक दोष करके रहित काल सो प्रशांत है, और दक्षिणा चेष्टागति ये दोनों शांता हैं, और नधुरशब्द होय तो प्रशांत शकुन जाननो ॥ ४७ । स्थानमिति ॥ मनकू हरै ऐसा सुंदरस्थान सोभी शांतहै या ग्रकारकर सात प्रकार को शांत कहैं हैं, फिरविपरतिभावते याही सातप्रकारकरके दीप्त कहैं हैं ॥ ४८ ॥
Aho ! Shrutgyanam