________________
૫૪
कु- च्योर्नोऽन्त ॥ ६५२
आभ्यां कितु तिः प्रत्ययो भवति नकारश्वान्तो भवति । कुङ् शब्दे, कुन्ति: - राजा, कुन्तयः - जनपदः । चिग्टु चयने, चिन्तिः- राजा ।। ६५२ ।।
खल्यमि-रमि-वहि-वस्य तें रतिः ॥ ६५३ ॥
एभ्योऽतिः प्रत्ययो भवति । खल संचये च, खलति:खल्वाट: । अम गतौ, अमतिः- चातकः, छागः प्रावृद्, मार्गः, व्याधिः, गतिश्च । रमिं क्रीडायाम्, रमतिः - क्रीडा, कामः, स्वर्गः स्वभावश्च । वहीं प्रापणे, वहतिः -गौः, वायु, 10 अमात्यः, अपत्यं, कुटुम्बं च । वसं निवासे, वसति:निवासः, ग्रामसंनिवेशश्च । ऋक् गतौ अरतिः - वायुः, सरणम्, असुखं, क्रोधः, वर्म च ।। ६५३ ।।
5
स्वोपज्ञोणादिगण सूत्रविवरणम् ॥
हन्तेरह च ॥६५४॥
हन हिंसागत्योः, इत्यस्मादतिः प्रत्ययो भवत्यस्य च 15 अंह इत्यादेशो भवति । अंहतिः - व्याधिः पन्थाः कालः, रथश्च ।। ६५४ ।।
वृगो व्रत् च ॥ ६५५॥
वृग्ट् वरणे, इत्यस्माद् अति: प्रत्ययो भवत्यस्य व्रत् इत्यादेशो भवति । व्रततिः वल्लिः ।। ६५५॥
20
35
अञ्चेः क् च वा ॥६५६॥
अञ्च गतौ चेत्यस्माद् अतिः प्रत्ययो भवत्यन्त्यस्य चक् इत्यन्तादेशो वा भवति । अङ्कतिः - वायुः अग्निः प्रजापतिश्च । अञ्चति:- अग्निः ॥६५६ ॥
वाणिद्वा ।।६५७।।
25 वां गतिगन्धनयो:, इत्यस्माद् अतिः प्रत्ययो भवति, स च णिदु वा भवति । वायतिः - वातः, वातिः - गन्धमिश्रपवनः ।। ६५७।।
योः कित् ||६५८||
युक् मिश्रणे इत्यस्माद् अतिः प्रत्ययः किद् भवति । 30 युवतिः - तरुणी ॥। ६५८ ।।
पातेर्वा ॥ ६५ ॥
पां रक्षणे, इत्यस्माद् अति: प्रत्ययः स च किद्वा भवति । पतिः- भर्ता, पाति: भर्ता, रक्षिता, प्रभुश्व
|
॥६५६॥
पुलस्तिः । क्षिपत् प्रेरणे, क्षिपस्तिः । एते लौकिका ऋषयः । अगस्तिः- वृक्षजातिश्च ॥ ६६० ।।
अगि विलि - पुलि- क्षिपेरस्तिक् ॥६६० ॥
एभ्यः किद् अस्तिः प्रत्ययो भवति । अग कुटिलायां गतो, अगस्तिः । विलत् वरणे, विलस्तिः । पुल महत्त्वे,
गृभ् च ॥६६१ ॥
गृधूच् अभिकाङ्क्षायाम् इत्यस्माद् अस्तिक् प्रत्ययो भवति, गभ् चास्यादेशो भवति । नभस्ति :- रश्मिः ।। ६६१ ॥ वस्यतिभ्यामातिः ॥६६२ ॥
आभ्याम् आतिः प्रत्ययो भवति । वसं निवासे, वसातयः - जनपदः । ऋक् गतौ, अरातिः - रिपुः ||६६२ ।। 45 अभेर्यामाभ्याम् ||६६३॥
अभिपूर्वाभ्याम् आतिः प्रत्ययो भवति । यांक् प्रापणे, मांक माने, अभियातिः, अभिमातिश्च - शत्रुः ।।६६३।।
40
यजो य च ॥ ६६४ ॥
यजी देवपूजादी, इत्यस्माद् अतिः प्रत्ययो भवत्यस्य च 50 यकारोऽन्तादेशो भवति । ययातिः - राजा ॥ ६६४ ।।
द्यविच्छदि-भूभ्योऽन्तिः ॥ ६६५ ॥
एभ्योऽन्तिः प्रत्ययो भवति । वद वक्तायां वाचि, वदन्तिः - कथा । अव रक्षणादिषु, अवन्तिः- राजा । अवन्तयः - जनपदः । छदण् अपवारणे, युजादिविकल्पितणिजन्त- 55 त्वादण्यन्तः, छदन्तिः - गृहाच्छादनद्रव्यम् । भू सत्तायाम्, भवन्तिः - कालः, लोकस्थिति ।। ६६५ ।। शकेरुन्तिः ।। ६६६॥
शक्लृट् शक्तौ इत्यस्माद् उन्तिः प्रत्ययो भवति । शकुन्तिः - पक्षी || ६६६ ॥
नञो दागो डितिः ॥६६७॥
60
नञ्पूर्वात् डुदांग्क् दाने, इत्यस्माद् डिद् इतिः प्रत्ययो भवति । अदिति:- दाता, देवमाता च ।। ६६७।।
देङः ||६६८ ||
देङ् पालने, इत्यस्माद् डिद् इतिः प्रत्ययो भवति । 65 दिति. - असुरमाता ।। ६६८॥
Aho! Shrutgyanam
वीसञ्ज्यसिभ्यस्थिक् ॥ ६६६ ॥
एभ्यः थिक् प्रत्ययो भवति । वीं प्रजननादिषु वीथि: - मार्गः । षञ्ज सङ्गे, सक्थि:- ऊरुः, शकटाङ्ग च । असूच् क्षेपणे, अस्थि:- पञ्चमो धातुः ।।६६९।।
70
सारेरथिः ||६७०।।
सृ गतौ इत्यस्माद् ण्यन्तादथिः प्रत्ययो भवति । सारथिः - यन्ता ॥ ६७०।।
निषञ्जेघित् ॥६७१॥