SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञोणादिगणसूत्र विवरणम् ॥ कण्यणि खनिभ्यो णिद्वा ॥ १६६ ॥ एभ्यो ङः प्रत्ययो भवति, स च णिद्वा भवति । कण अण शब्दे, काण्डः शरः, फलसंघातः, पर्व च । कण्डं भूषणं, पर्व च । आण्ड:-मुष्कः, अण्ड: स एव, योनिविशेषश्च । 5 खनूग् अवदारणे, खाण्डः - कालाश्रयो, गुडः । खण्डः-इक्षुविकारोऽन्यः । खण्डं - शकलम् ॥१६६॥ कु-गु-हु-नी- कुणि तुणि-पुणि-मुणि- शुन्यादिभ्यः कित् ॥ १७० ॥ एभ्यः कित् डः प्रत्ययो भवति । कुङ् शब्दे, कुड : घटः, 10 हलं च । गुशब्दे, गुड:- गोल:, इक्षुविकारश्च, गुडासन्नाहः । हुक् दानादनयो:, हुड :- मूर्ख मेपश्च । णीं‍ प्रापणे, नीडं - कुलायः । कुणत् शब्दोपकरणयो:, कुण्डंभाजनम्, जलाधारविशेषश्च । कुण्ड: भर्तरि जीवति जारेण जातः अपट्विन्द्रियश्च । तुणत् कौटिल्ये, तुण्डम् 15 मुखम् । पुणत् शुभे, पुण्डः भिन्नवर्णः । मुणत् प्रतिज्ञाने, मुण्डः परिवापितकेशः । शुनत् गतौ शुण्डा-सुरा, हस्तिहस्तश्च । आदिग्रहणादन्येभ्योऽपि भवति ।। १७० ।। | 35 ऋ सृ-तृ-व्या-लिह्यविचमि वमि-यमि-चुरिकुरडः ॥ १७१ ॥ 20 एभ्यो अड: प्रत्ययो भवति । ऋक् गतौ, अरडः - तरुः । सृ गतौ, सरड: भुजपरिसर्पः तरुश्च । तू प्लवनतरणयोः, तरड:-वृक्ष जातिः । व्यंग् सवरणे, व्याड:- दुःशील:, हिंस्रः पशु, भुजगश्च । लिहीं आस्वादने, लेहड:-श्वा, चौर्यग्रासी च । अव रक्षणादौ, अवड:- क्षेत्रविशेषः । चमू 25 अदने, चमड :- पशुजाति: । टुवमू उद्विरणे, वमड:-लूताजातिः । यमू उपरमे, यमड: वनस्पतिः, युगलं च । चुरण् स्तेये, चोरड:चोरः । कुणि विस्मापने, कुह्डः उन्मत्तकः ।। १७१ ।। विड-कहोड- कुरड-केरड-क्रोडादयः ।।१७२ ।। एतेऽप्रत्ययान्ता निपात्यन्ते । विपूर्वात् हन्तेरनो लुक्च, 30 वि :- शकुनि: मूढचित्तश्च । कषेर्हः प्रत्ययोऽकारस्य च औकार, कहोड : - ऋषिः । कुरेर्गुणाभावश्च. कुरड :- मार्जारः । किरते: केर् च केरड :- त्रैराज्ये राजा । कृगः कित् प्रत्ययाकारस्य च औकारः । क्रोड:- किरिः, अङ्कश्च । आदिग्रहणात् लहोडादयो भवन्ति ।। १७२ ।। ज-क-त-श-स-भ-वृभ्योऽण्डः ॥ १७३ ॥ एम्योsur: प्रत्ययो भवति । जष्च् जरसि, जरण्ड:अतीत वयस्कः । कृत् विक्षेपे, करण्डः समुद्गः, समुद्रः कृमिजातिश्च । तृ प्लवनतरणयो:, तरण्ड:-प्लवः, वायुश्च । शृश हिंसायाम्, शरण्ड: हिस्रः, आयुधं च । सृ गतौ, सरण्ड: १५ कृमिजातिः, इषीका, वायुः, भूतसंघातः, तृणसमवायश्च । 40 टुडुभृ ंग्क् पोषणे च भरण्ड: भण्डजातिः, पक्षी च । वृग्ट् वरणे, वरण्डः- कुडयम्, तृणकाष्ठादिभारश्च ।।१७३ ।। पूगो गादिः ॥१७४॥ | पूश् पवने, इत्यस्मात् गकारादिः अण्डः प्रत्ययो भवति । पोगण्ड:- विकलाङ्गः, युवा च ॥ १७४॥ वनेस्त च ॥ १७५॥ वन भक्ती, इत्यस्माद् अण्डः प्रत्ययो भवति, तकारश्चान्तादेशो भवति । वतण्डः-ऋषिः ।। १७५।। पिचण्डैरण्ड-खरण्डादयः ॥ १७६ ॥ yasus प्रत्ययान्ता निपात्यन्ते । पिचेरगुणत्वं च पि- 50 चण्ड:- लघुलगुडः । ईरेगुणश्च, एरण्डः पञ्चागुलः । खाहभक्षणे, अन्त्यस्वरादेररादेशश्च, खरण्डः-सर्वर्तुकम् । आदिग्रहणात् भवन्ति कूष्माण्डशयण्डशयाण्डादयोपि ।।१७६ ।। लगेरुडः ॥ १७७॥ 55 लगे सङ्गे इत्यस्मात् उडः प्रत्ययो भवति । लगुड :यष्टिः । गृ-ज-दु-वृ-भृभ्यस्तु उडो विहित एव ।। १७७।। कुण्ड ।। १७८ ॥ कुशच् श्लेषे इत्यस्मात् उण्डक् प्रत्ययो भवति । कुशुण्डः - वपुष्मान् ॥१७८॥ शमिषणिभ्यां ढः ॥ १७६ ॥ 60 आभ्यां ढः प्रत्ययो भवति । शमुच् उपशमे, शण्ढः नपुंसकम् । षन भक्तो, षण्ढः स एव । बाहुलकात् सत्वाभावः ।।१७६ ।। 45 कुः कित् ॥१८०॥ कुणत् शब्दोपकरणयोः इत्यस्मात् कित् ढः प्रत्ययो भवति । कुण्ठ:- धूर्त: । बाहुलकान्न दीर्घः ।। १८० ।। नञः सहेः षा च ॥ १८१ ॥ इणुवि-शा वेणि-पु-कृ-व-त्-ज-ह-सृपि-पणिभ्यो णः ।। १८२ ॥ 65 नञपूर्वात् षहि मर्षणे, इत्यस्मात् ढः प्रत्ययो भवति, पा चास्यादेशो भवति । अषाढा नक्षत्रम् ।। १८१॥ 70 एभ्यो णः प्रत्ययो भवति । इंणक गती, एण:- कुरङ्गः । उर्वे हिंसायाम्, उर्णा- मेषादिलोम, भ्रुवोरन्तरावर्तश्च । शोंच् तक्षणे, शाण: परिमाणम्, शस्त्रतेजनं च । वेणुग् गतिज्ञान- 75 चिन्तानिशामनवादित्रग्रहणेषु वेण्णा कृष्णवेण्णा च नाम नदी । पृश् पालनपूरणयोः, पर्ण-पत्त्रं, शिरश्च । कृत् वि Aho! Shrutgyanam
SR No.034212
Book TitleUnadigana Vivrutti
Original Sutra AuthorHemchandracharya
Author
PublisherLavanyasurishwar Gyanmandir
Publication Year1968
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy