SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ १० स्वोपज्ञोणादिगणसूत्रविवरणम् ॥ उषू दाहे, इत्यस्मात् कित् खः प्रत्ययो भवति, लुक् चान्त्यस्य भवति । उषन्त्यस्यामिति उखा स्थाली, ऊर्ध्वक्रिया वा ॥ ८८ ॥ महेचास्य वा ॥ ८६ ॥ 5 महपूजायाम्, इत्यस्मात् खः प्रत्ययः अन्तलुक् अकारस्य च उकारादेशो वा भवति । मुखमाननम्, मख:-यज्ञः, अध्वर्य:, ईश्वरश्व ||८|| न्युङ्खादयः ॥ ६०॥ न्युङ्खादयः शब्दाः खप्रत्ययान्ता निपात्यन्ते । नयतेः 10 ख उन् चान्तः, न्युङ्खा: - षडोङ्काराः । आदिग्रहणादन्येऽपि 112011 म-धि-भ्यामूखेख ॥१॥ मयि गत, एषि वृद्ध, इत्याभ्यां यथासंख्यं उख, इख इत्येतौ प्रत्ययौ भवतः । मयूखः - रश्मिः । एधिखः वराहः 15 11 गम्यमि- रम्यजि- गद्यदि छाग-डि-खडि-गु-भृ-वृस्वृभ्यो गः ||२|| योग: प्रत्ययो भवति । गम्लृ गतौ, गङ्गा, देवनदी । अम गतौ, अङ्गम् शरीरावयवः, अङ्गः समुद्रः, वह्निः राजा 20 च, अङ्गा-जनपदः । रराम क्रीडायाम्, रङ्गः - नाट्यस्थानम् । अज क्षेपणे च वेगः-स्वरा, रेतश्च । गद व्यक्तायां वाचि, गद्गः वाग् विकलः | अदं भक्षणे, अद्गः समुद्रः, अग्निः, पुरोडाशश्च । छोंच् छेदने, छाग:- बस्तः । गड सेचने, गङ्गःमृगजातिः । खडण् भेदे, खड्गः मृगविशेषोः असिश्च । गृत् 25 निगरणे, गर्गः ऋषिः । टुडुभृंग्क् पोषणे च भर्गः रुद्रः, सूर्यश्च । वृग्ट् वरणे, वर्गः संघातः । औस्त्र शब्दोपतापयोः, स्वर्गः नाकः ॥६२॥ पू- मुदिभ्यां कित् ॥६३॥ आभ्यां किद्रः प्रत्ययोभवति । पूग्श्वने पूगः संघातः, 30 क्रमुकश्च । मुदि हर्षे मुद्रः -धान्यविशेषः ||३|| भृवृभ्यां नोऽन्तश्च ॥ ६४॥ आभ्यांद्रिः प्रत्ययो भवति, नकारश्चान्तो भवति । भृग् पोषणे च भृङ्गः-पक्षी, भ्रमरः वर्णविशेषः, लवङ्गश्व । वृगट् वरणे, वृङ्गः, पक्षीः, उपपतिः ॥ ६४॥ मो णिद्वा ||५|| 35 शृङ्ग-शाङ्गदियः ॥६६॥ शृङ्गादयः शब्दा गप्रत्ययान्ता निपात्यन्ते । शृश् हिंसा- 40 याम्, इत्यस्य नोऽन्तो ह्रस्वश्च । शृङ्ग-विषाणम्, शिखर च, तस्यैव नोऽन्तो वृद्धि, शार्ङ्गः - पक्षी । आदिग्रहणात् हंग् हरणे, हार्ग:- परितोषः । मृत् प्राणत्यागे, मार्ग:-पन्थाः ॥६६॥ द्रम गतौ इत्यस्माद्रः प्रत्ययो भवति स च णिद्वा । दाङ्ग - शीघ्रम्, द्राङ्गः पांशुः द्रङ्गः-नगरम् द्रङ्गा-शुल्कशाला ॥६५॥ तडेरागः ॥६७॥ तडण् आघाते, इत्यस्मादागः प्रत्ययो भवति । तडागं सरः ॥६७॥ पति- तमि तृ-पु-कृ-शूल्वादेरङ्गः ॥ ६८ ॥ एभ्योऽङ्गः प्रत्ययो भवति । पत्लृ गतौ पतङ्गः-पक्षी, शलभ:, सूर्यः, शालि विशेषश्च । तमूच् काङ्क्षायाम्, तमङ्गः- 50 हर्म्यनिर्यूहः । तृ प्लवनतरणयोः तरङ्गः ऊर्मिः । पृश् पालनपूरणयो:, परङ्गः खगः वेगश्च । कृत् विक्षेपे, करङ्गःकर्मशीलः । शृश् हिंसायाम्, शरङ्गः पक्षिविशेषः । लूग्श् छेदने लवङ्गः सुगन्धिवृक्षः । आदिग्रहणादन्येभ्योऽपि ॥६८॥ सृ-वृ- नृभ्यो णित् ॥६६॥ एभ्योणिदङ्गः प्रत्ययो भवति । संगती, सारङ्गःहरिणः, चातकः, शबलवर्णश्च । वृग्ट् वरणे, वारङ्गः, काण्डखङ्गयोः, शल्यं, शकुनिश्व । नृश् नये, नारङ्गः-वृक्षजातिः 11εε11 ममंत्मातौ च ॥१००॥ चास्यादेशो भवतः । मतङ्गः ऋषिः, हस्ति च । मातङ्गःमनिच् ज्ञाने इत्यस्मादङ्गः प्रत्ययो भवति, मतमातौ हस्ती अन्त्यजातिश्च ॥ १००॥ 45 55 60 विडि विलि - कुरि मृदि पिशि-भ्यः कित् ॥ १०१ ॥ 65 एभ्यः किङ्गः प्रत्ययो भवति । विड आक्रोशे, विडङ्ग:वृक्षजातिः, गृहावयवश्च । विलतू वरणे, विलत् भेदने वा विलङ्गः - औषधम् । कुरत् शब्दे, कुरङ्गः हरिणः, कुरङ्गीभोजकन्या । मृदश् क्षोदे, मृदङ्गः-मुरजः । पिशत् अवयवे, पिशङ्गः वर्णः ।। १०१ । 70 स्फुलि - कलि- पत्यादभ्य इङ्गक् ॥ १०२ ॥ स्फुलादिभ्य आदन्तेभ्यश्च इङ्गक् प्रत्ययो भवति । स्फुलत् संचये च, स्फुलिङ्गः स्फुलिङ्गा च अग्निकणः । कलि शब्दसंख्यानयोः, कलिङ्ग - राजा, कलिङ्गा - जनपदः । पल गती, पलिङ्ग ऋषिः, शिला च । पातेः पिङ्गः । भाते:, 75 भिङ्गः । द्वावपि वर्णविशेषौ । ददाते: दिङ्गः अध्यक्षः । दधातेः धिङ्गः श्रेष्ठी । लातेः लिङ्ग स्त्रीत्वादि हेतुश्च । Aho! Shrutgyanam
SR No.034212
Book TitleUnadigana Vivrutti
Original Sutra AuthorHemchandracharya
Author
PublisherLavanyasurishwar Gyanmandir
Publication Year1968
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy