________________
हेमचन्द्रव्याकरणे
[३४-३६ अन्तलुक् च । जहकः कालः क्षुद्रश्च ।। ईरिक् गतिकम्पनयोः । ईडिक् स्तुती । अनयोर्गुणश्च । एरकोदकतृणजातिः ।। पडकाविजातिः ॥ अशौटि व्याप्ती । अस्य मोन्तः । अश्मका जनपदः ।। रमि क्रीडायाम् । अस्य लमादेशश्च । लमक ऋषिविशेषः ॥ क्षुदंपी संपेषे । अस्य क्षुल्लादेशश्च । क्षुल्लको दभ्रः । क्षुधं लातीति वा क्षुल्लः । क्षुल्ल एव क्षुल्लक इति वा ॥ वट वेष्टने । अस्यावोन्तश्च | वटवकस्तृणपुञ्जः।। आड्पूर्वात् ढौकोर्डिच | आढकं मानम्|| आदिग्रहणात् बृहत्तन्त्रात् । कला आपिबन्तीति कलापकाः शास्त्राणि || कथण वाक्यप्रबन्धे । कथयतीति कथकस्तोटकाख्यायिकादीनां वर्णयिता । एवमुपकचम्पकफलहकादयोपि ।। ३३ ॥ शालिबलिपतिवृतिनभिपटितटितडिगडिभन्दिवन्दिमन्दिनभिकुदुपूम
निखजिभ्य आकः ॥ ३४ ॥ पभ्य आकः प्रत्ययो भवति ॥ पल फल शल गतौ । शलाकैषणी पूरणरेखा यूतोपकरणं सूची च ॥ बल प्राणनधान्यावरोधयोः । बलाका जलचरी शकुनिः ॥ पतु गतौ । पताका वैजयन्ती ॥ वृतूड् वर्तने । वर्ताका शकुनिजातिः ।। णभच् हिंसायाम् | नभाकश्चक्रवाकजातिस्तमः काकश्च ।। पट गतौ । पटाका वैजयन्ती पक्षिजातिश्च || तट उच्छाये | तटाकं सरः ॥ तडण आघाते । तडाकं तदेव ॥ गड सेचने | गडाकः शाकजातिः ॥ भदुड् सुखकल्याणयोः । मन्दाकं शासनम् || वदुड् स्तुत्यभिवादनयोः। वन्दाकश्चीवरभिक्षुः ॥ मदुड् स्तुत्यादिषु । मन्दाकौषधिः ।। णमं प्रवत्वे । नमाका मेच्छजातिः ।। कुंड शब्दे । कवाकः पक्षी || दुदुंट उपतापे । दवाको मृच्छः ॥ पूड् पवने | पवाका वात्या || मनिंच ज्ञाने | मनाका हस्तिनी॥ खज मन्थे । खजाक आकरो मन्था दर्विराकाशं बन्धकी शरीरं पक्षी च ॥ ३४ ॥ . शुभिगृहिविदिपुलिगुभ्यः कित् ॥ ३५ ॥ ... एभ्यः किदाकः प्रत्ययो भवति॥शुभि दीप्तौ । शुभाका पक्षिजातिः ॥ गृहणि ग्रहणे | गृहाकः॥ विदक् ज्ञाने । विदाका भूतयामः || पुल महत्त्वे । पुलाकोर्धस्विन्नो धान्यविशेषः ।। गुंड् शब्दे । गुंत् पुरीपोत्सर्गे वा । गुवाकं पूगफलम् ॥ ३५॥
पिषेः पिन्पिण्यौ च ।। ३६॥ पिषूप् संचूर्णने । इत्यस्मात्किदाकः प्रत्ययो भवत्यस्य च पिन् पिण्य इत्यादेशौ भवतः ॥ पिनाकमैशं धनुः शूलं वा। पिनाको दण्डः । पिण्याकस्तिलादिखलः॥३६॥
Aho I Shrutagyanam