________________
३०-३३]]
उणादिविवृतिः ।
वपनविशेषः ।। उन्दैप क्लेदने । उदकं जलम् ।। रुचि अभिप्रीत्यां च | रुचक आभरणविशेषः ॥ तिलत् स्नेहने । तिलको विशेषको वृक्षश्च ॥ पुलण् समुच्छाये । पुल महत्त्वे वा । पुलको रोमाञ्चः ।। कुल बन्धुसंस्त्यानयोः । कुलकं संयुक्तम् ।। क्षिपीत् प्रेरणे | क्षिपको वायुः । क्षिपकायुधम् ।। क्षुपः सौत्रो हस्वीभावे । क्षुपको गुल्मः ॥ क्षुभच् संचलने । क्षुभकः पाञ्चालकः ॥ लिखत् अक्षरविन्यासे । लिखकश्चित्रकरः ॥ २९ ॥
छिदिभिदिपिटेर्वा ॥ ३० ॥ एभ्योकः प्रत्ययो भवति स च किहा भवति ॥ छिद्रूपी वैधीकरणे । छिदकः खड्गः क्षुरश्च । छेदकः परशुः ॥ भिदंपी विदारणे । भिदकं जलं पिशुनव । भेदकं वबम् ।। पिट शब्दे च | पिटकः क्षुद्रस्फोटकः । पेटकं संघातः ॥ ३० ॥
कृषेर्गुणवृद्धी च वा ॥ ३१॥ कृषेरकः प्रत्ययो भवति गुणवृद्धी चास्य वा भवतः ॥ कृषीत् विलेखने । कर्षकः । कृषकः परशुः ।। कार्षकः । कृषकः कुटुम्बी ।। ३१ ॥
नञः पुंसेः ॥ ३२॥ नञः परात् पुंसण अभिमर्दने | इत्यस्मात्किदकः प्रत्ययो भवति ।। नपुंसकं तृतीया प्रकृतिः ॥ नखादित्वान्नबत् न भवति ॥ ३२॥
कीचकपेचकमेचकमेनकाकधमकवधकलघकजह कैरकैडकाइमकल.
मकक्षुल्लकवटवकाढकादयः ॥ ३३ ।। एते कीचकादयः शब्दा अकप्रत्ययान्ता निपात्यन्ते । कचि बन्धने । अस्योपान्त्येत्वं च । कीचको वंशविशेषः ॥ डुपचीए पाके | मचि कल्कने । मनिच ज्ञाने । एषामुपान्त्यत्वं च | पेचकः करिजघनभागः ।। मेचको वर्णः ।। मेनकाप्सराः ॥ अर्तेर्भश्वान्तः। अर्भको बालः || मां शब्दाग्निसंयोगयोः । अस्य धमादेशश्च । धमकः कीटः कर्मारश्च । अन्यत्रापि धमादेशो दृश्यते । क्त धान्तः ॥ हन्तेर्वधश्च | वधको हन्ता व्याधिश्च । वधकं पद्मबीजम् । अन्यत्रापि दृश्यते । वृत्रं हन्ति । अचि | वृत्रवधः शक्रः । वधिता निर्मोचकः । वध्यः । वधनम् ॥ लघुड् गतौ । नलुक् च | लघकोसमीक्ष्यकारी ॥ जहाते रूपे
Aho ! Shrutagyanam