________________
हेमचन्द्रव्याकरणे दृकृनृसृभधृवृमृस्तुकुक्षुलकिचरिचटिकटिकण्टिचणिचषिफलिवमितम्यविदेविबन्धिकनिजनिमशिक्षारिकुरिवृतिव
ल्लिमल्लिसत्यलिभ्योकः ॥ २७॥ एभ्योकः प्रत्ययो भवति ॥ दृश् विदारणे । दरको भीरुः ॥ कृत् विक्षेपे । करको जलभाजनं कमण्डलुश्च । करका वर्षपाषाणः ।। नृश् नये । नरको निरयः।। सं गतौ । सरको मद्यविशेषः कंसभाजनविशेषश्च । सरका मधुपानवारः।। टुडु ग्क् पोषणे च | भरको गोण्यादिः ॥ धृड् अवध्वंसने । धरकः सुवर्णेन्माननियुक्तः ॥ वृगटु वरणे । वरको वधूजानिसहायो वाजसनेयभेदश्च ।। मृत् प्राणस्यागे | मरको जनोपद्रवः ।। टुंगक् स्तुती । स्तबकः पुष्पगुच्छः ॥ कुंक् शब्दे । कवकमभक्ष्यद्रव्यविशेषः ।। टुक्षुक् शब्दे | क्षवको राजसर्षपः ॥ लघु गतौ । लडको रङ्गोपजीवी ।। चर भक्षणे | चरको मुनिः ॥ चटण भेदे । चटकः पक्षी ।। कटे वर्षावरणयोः । कटको वलयः ।। कटु गतौ । कण्टकस्तरुरोम || चण शब्दे । चणको मुनिर्धान्यविशेषश्च ॥ चषी भक्षणे । चषकः पानभाजनम् ।। फल निष्पत्तौ । फलकः खेटकम् ।। टुवमू उद्गिरणे | वमकः कर्मकरः। तमूच् काङ्क्षायाम् । तमको व्याधिः क्रोधश्च ।। अव रक्षणादौ । अवका शैवलम् ।। देवड् देवने | देवकाप्सराः । देविका नदी || बन्धंश् बन्धने । बन्धकचारकपालः ॥ कनै दीयादिषु । कनकं सुवर्णम् ॥ जनैचि प्रादुर्भावे । जनकः सीतापिता || मश रोषे च । मशकः क्षुद्रजन्तुः । क्षर संचलने | ण्यन्तः ! क्षारकं बालमुकुलम् ।। कुरत् शब्दे । कोरकं प्रौढमुकुलम् ।। वृतूड् वर्तने | वर्तका वर्तिका वा शकुनिः || वल्लि संवरणे | वल्लकी वीणा || मल्लि धारणे | मल्लकः शरावः । मल्लिका पुष्पजातिर्दीपाधारश्च ।। सल्लः सौत्रः । सल्लकी वृक्षः । सत्कृत्य लक्यते स्वाद्यते गजैः सल्लकीति वा ।। अली भूषणादिषु । अलकः केशविन्यासः । अलका पुरी ॥ २७ ॥
__को रुरुण्टिरण्टिभ्यः ।। २८ ॥ कुशब्दात्परेभ्य एभ्योकः प्रत्ययो भवति ।। रुक् शब्दे । कुरवको वृक्षः॥ रुटु स्तेये | कुरुण्टको वर्णगुच्छः ।। रष्टिः सौत्रः । कुरण्टकः स एव ।। २८ ।। ध्रुधून्दिरुचितिलिपुलिकुलिक्षिपिक्षुपिक्षुभिलिखिभ्यः कित् ॥ २९॥ ..
एभ्यः किदकः प्रत्ययो भवति || धुं स्थैर्य च । ध्रुवकः स्थिरः । ध्रुवकावपनविशेषः ।। धूत विधूनने । धुवकं धूननम् । धुवकः प्रधानम् । स्त्री धुवका.
Aho I Shrutagyanam