________________
३७-४१]
उणादिविवृतिः । . मवाकश्यामाकवार्ताकवृन्ताकज्योन्ताकगूवाकभद्राकादयः ।। ३७॥
एत आकप्रत्ययान्ता निपात्यन्ते ।। मव्य बन्धने | यलोपः। मवाको रेणुः ।। यड् गतौ । मोन्तः । श्यामाको जघन्यो ब्रीहिः ।। वृतेर्वृद्धिश्च । वार्ताकी शाकविशेषः । तत्फलं वार्ताकम् || स्वरानोन्तश्च | वृन्ताक्युचबृहती | तत्फलं वृन्ताकम् ।। ज्युड् गतौ | न्तश्च प्रत्ययादिः । ज्यवतेस्मिन्स्विद्यमान इति ज्योन्ताकं स्वेदसद्मविशेषः ।। गुंत् पुरीषोत्सर्गे । गुंड शब्दे वा | ऊवादेशश्च | गूवाकं पूगफलम् ।। भदुड् सुखकल्याणयोः । अस्य भद्रादेशच | भद्राकोकुटिलः ॥ आदिग्रहणात् स्योनाकचार्वाकपराकादयो भवन्ति ।। ३७॥
क्रीकल्यलिदलिस्फटिदृषिभ्य इकः ॥ ३८॥ एभ्य इकः प्रत्ययो भवति ।। डुक्रींग्श् द्रश्यविनिमये । क्रयिकः क्रेता ॥ कलि शब्दसंख्यानयोः । कलिका कोरकम् । उत्कलिकोमिः ॥ अली भूषणादौ । अलिकं ललाटम् ।। दल विशरणे | दलिकं दारु ।। स्फट स्फुट्ट विसरणे | स्फटिको मणिः ।। दुषंच वैकृत्ये | दूषिका नेत्रमलः ।। ३८॥
आडः पणिपनिपदिपतिभ्यः ।। ३९ ।। आड्परेभ्य एभ्य इकः प्रत्ययो भवति || पणि व्यवहारस्तुत्योः । आपणिकः पत्तनवासी व्यवहारज्ञो वा ॥ पनि स्तुती । आपनिकः स्तावक इन्द्रनील इन्द्रकीलो वा ।। पदिंच गती | आपदिक इन्द्रनील इन्द्र कीलो वा ॥ पतु गतौ । आपतिकः पथि वर्तमानो मयूरः श्येनः कालो वा ॥ आपणिकादयश्चत्वारो वणिजोपि
नसिवसिकसिभ्यो णित् ॥ ४० ॥ एभ्यो णिदिकः प्रत्ययो भवति || गसि कौटिल्ये । नासिका घ्राणम् ।। वसं निवासे | वासिका माल्यदामविशेषश्छेदनद्रव्यं च ।। कस गतौ । कासिका वनस्पतिः ॥ ४०॥
पापुलिकृषिशिवश्विभ्यः कित् ।। ४१॥ एभ्य इकः प्रत्ययो भवति स च कित् [भवति ॥] पां पाने । पिकः कोकिलः ।। पुल महत्त्वे । पुलिको मणिः ॥ कृषीत् विलेखने । कृषिकः पामरस्तुणजातिश्च ।। कुशं वानरोदनयोः । कुशिकः क्रोष्टुक उलूकश्च ॥ ओवधीत् छेदने । वृश्चिकः सविषकीटो राशिश्व नक्षत्रपादनवकरूपः ॥ ४१ ॥
Aho! Shrutagyanam