________________
९-१२]
उणादिविवृतिः ।
गङ्गदमव्यक्तं वत्रनम् || मनित्र् ज्ञाने | मन्मनोविस्पष्टवाक् | सरूपग्रहणं व्यञ्जनस्थानादेर्लुगित्यादिकार्यनिवृत्त्यर्थम् ॥ ८ ॥
ऋतष्टित् ॥ ९ ॥
ऋकारान्ताद्धातोरकारः प्रत्ययो भवति स च बहुलं टित् धातोश्व सरूपे द्वे रूपे भवतः !| दृश् विदारणे । दीर्यते भिद्यतेनेन श्रोत्रमिति दर्दरो वाद्यविशेषः पर्वतश्च | दर्दरी सस्यलुण्टिः || कृत् विक्षेपे । कर्करः क्षुद्रामा | कर्करी गलन्तिका || वृग्श् वरणे | वर्त्ररो म्लेच्छजातिः । वर्वरी केशविशेषः || भृश् भरणे | भर्भरः छद्मवान् | भर्भरी श्रीः || जब्च् जरसि | जर्जरोदृढः | जर्जरी स्त्री ॥ झुञ्च् जरसि । झर्झरो वाद्यविशेषः । झर्झरी झारिका ॥ गृत् निगरणे | गरी राजर्षैिः। गर्गरी महाकुम्भः || मृश् हिंसायाम् | मर्मरः शुष्कपत्रप्रकरः | तद्धर्मान्योपि क्षोदासहिष्णुर्मर्मरो दानव । मर्मरायां दूर्वायामित्यादौ टित्वेपि
भवति बहुलाधिकारात् || तत एव च ऋकारान्तादपि । वृं सेचने | घर्घरः सघोषोव्यक्तवाक् । घर्धरी किङ्कणिका ॥ ९॥
किच्च ॥ १० ॥
ऋकारान्ताद्धातोर्यथादर्शनं किदकारः प्रत्ययो भवति धातोश्च सरूपे द्वे रूपे भवतः || मृश् हिंसायाम् | मूर्यतेनेनेति मुर्मुरो ज्वलदङ्गारचूर्णम् ॥ पृश् पालन पूरणयोः । पूर्यते जलघातेन | पुर्पुरः फेनः || तू प्लवनतरणयोः । तीर्यतेनेनास्मिन्त्रा| तिर्तिरः संक्रमः || भृश्भर्जने च । भूर्यते संचीयते । भुर्भुरः संत्रयः || शृश् हिंसायाम् । शीर्यते समन्तात् । शिर्शिरः पुञ्जः ॥ १० ॥
पृपलिभ्यां टित् पिप् च पूर्वस्य ॥ ११ ॥
आभ्यां टिदः प्रत्ययो भवत्यनयोश्च सरूपे द्वे रूपे भवतः पूर्वस्य च स्थाने पिप् इत्यादेशो भवतेि || पृश् पालनपूरणयोः । पृणाति छायया । पिप्परी वृक्षजातिः ॥ पल गतौ | पलत्यातुरम् | पिप्पल्यौषधजाति : टित्करणं ड्यर्थम् || ११ ॥
क्रमिमयिभ्यां चन्मनौ च ॥ १२ ॥
आभ्यामः प्रत्ययो भवति सरूपे च द्वे रूपे भवतः पूर्वस्य च स्थाने यथासंख्वं चन् मन् इत्यादेशौ भवतः ॥ क्रमू पादविक्षेपे । क्रामति सुखमनेना
Aho! Shrutagyanam