________________
हेमचन्द्रव्याकरणे
[१३-१७ स्मिन्वा । चङमः संक्रमः ॥ मथे विलोडने । मथति चित्तं रागिणाम् । मन्मथ : काम: ॥ १२ ॥
गमेजम् च वा ॥ १३ ॥ गमेर : प्रत्ययो भवति सरूपे च द्वे रूपे भवत : पूर्वस्य च जम् इत्यादेशो [वा ] भवति ।। गमं गतौ । गच्छति पादविहरणं करोति । जङ्गमश्वरः ।। गच्छत्यमाध्यस्थ्यमिति गङ्गमश्चपलः ॥ १३ ॥
. अदुपान्त्यऋग्यामश्चान्ते ॥ १४ ।। अकारोपान्त्याइकारान्ताच्च धातोर : प्रत्ययो भवति तरूपे च द्वे रूपे भवत : पूर्वस्य चान्ते कारो भवति || पल फल शल गती । शलशलः॥ सल गतौ । सलसलः ॥ हल विलेखने । हलहलः ॥ कलि शब्दसंख्यानयोः । कलकल : | मलि धारणे | मलमलः ॥ घटिष् चेष्टायाम् । घटघटः ।। वद व्यक्तायां वाचि । वदवदः ।। पदिंच गतौ । पदपदः ॥ दन्तः ॥ डुकंग् करणे । करकरः ।। मृत् प्राणत्यागे | मरमरः । इंड्त् आदरे । दरदरः ॥ सुं गतौ । सरसरः ॥ वृग्ट वरणे | वरवरः ।। अनुकरणशब्दा एते ॥ १४ ॥
मषिमसेर्वा ॥ १५ ॥ आभ्यामः प्रत्ययो भवति सरूपे च द्वे रूपे भवतः पूर्वस्य चान्तेकारो वा भवति || मष हिंसायाम् । मषमषः । मष्मषः ।। मसैच् परिणामे । मसमसः । मस्मसः ॥ १५ ॥
हसृफलिकषेरा च ॥ १६ ॥ एभ्यो अः प्रत्ययो भवति सरूपे च द्वे रूपे भवतः पूर्वस्य चान्त आकारो भवति ।। हूंग् हरणे । हरति नयति शस्त्राण्यस्खलन् लक्ष्यम् । हराहरो योग्याचार्यः ।। तूं गतौ । धावति वायुना नीयमानः समन्तात् । सरासरः सारङ्गः ॥ फल निष्पत्ती । फलति निष्पादयति नानाविधानि पुष्पफलानि । फलाफलमरण्यम्। कष हिंसायाम् । कषति विदारयति । कषाकष : कृमिजाति ः ॥ १६ ॥
इदुदुपान्त्याभ्यां किदिदुतौ च ॥ १७ ॥ इकारोपान्त्यादुकारोपान्त्याच किदः प्रत्ययो भवति सरूपे च द्वे रूपे भवतः पूर्वस्य च यथासंख्यमिकार-उकारावन्ते भवतः ।। किलत् श्वैत्यक्रीउनयोः' । किलिकिलः ॥ हिलत् हावकरणे ! हिलिहिलः ॥ सिलत् उञ्छे ।
Aho I Shrutagyanam