________________
हेमचन्द्रव्याकरणे
[२-० अः॥ २॥ सर्वस्माद्धातोर्यथाप्रयोगमकारः प्रत्ययो भवति ॥ भवः। तरः । वरः । प्लवः । शयः । शरः । परः । करः । स्तवः । चरः । वदः ॥ २॥
__ म्लेछीडेहस्वश्च वा ॥३॥ आभ्यामः प्रत्ययो भवति दीर्घस्य च हस्वो वा भवति ॥ म्लेछ अव्यक्तायां वाचि | मिच्छ: मूकः । मेच्छ: कुमनुष्यजातिः ॥ ईडिक् स्तुती । ईड इडश्व देवताविशेषो मेदिनी च ॥ ३ ॥
नञः क्रमिगमिशमिखन्याकमिभ्यो डित् ॥ ४॥ नपरेभ्य एभ्यो डिदः प्रत्ययो भवति ।। क्रमू पादविक्षेपे । न कामति । नक्रो जलचरो पाहः ।। गगं गतौ ! नगो वृक्षः पर्वतश्च ।। शमूच् उपशमे | नशो यक्षः ।। खनूग् अवदारणे | नखः करजः । नास्य खमस्तीति वा नख इत्यपि । कमूड कान्ती । नाकः स्वर्गः | नात्राकमस्तीति नाक इत्यपि । नखादित्वादन्स्वर इत्यन भवति । डिस्करणमन्त्यस्वरादिलोपार्थम् ।। ४ ।।
तुदादिविषिगुहिभ्यः कित् ।। ५॥ तुदादिभ्यो विषिगुहिभ्यां च किदः प्रत्ययो भवति ॥ तुदः । नुदः । क्षिपः। सुरः । बुधः । सिवः । तुदादीनां यथासंभवं कारकविधिः ॥ विषूकी व्याप्तौ । वेवेष्टि | विषं प्राणहरं द्रव्यम् । गुहौग् संवरणे | गृहति । गुहः स्कन्दः । गुहा पर्वतैकदेशः ॥ ५ ॥
विन्दे लुक् च ।। ६॥ विन्देः किदः प्रत्ययो भवति तत्संनियोगे नस्य लुक् च [भवति ] | विदु अवयवे । विदो गोत्रकृवृक्षजातिश्च ॥ ६ ॥
कृगो द्वे च ॥७॥ करोतेः किदः प्रत्ययो भवत्यस्य च धातोर्दै रूपे भवतः ॥ डुकंग करणे । चक्रं रथाङ्गमायुधं च । ७॥ .
कनिगदिमनेः सरूपे ॥ ८॥ किदिति निवृत्तम् । एभ्योकारः प्रत्ययो भवत्येषां च सरूपे समानरूपे वे उक्ती भवतः ॥ कनै दीप्तिकान्तिगतिषु । कनति दीप्यते | कङ्कनः कान्तः ॥ गद व्यक्तायां वाचि | गदत्यव्यक्तं वदति गद्यतेव्यक्तं कथ्यते वा | गद्गदोव्यक्तवाक् ।
Aho 1 Shrutagyanam