________________
१५२
हेमचन्द्रव्याकरणे
सोरर्तेर्लुक् च ॥ ९४६ ॥
सुपूर्वात् ऋक् गतौ । इत्यस्मादर् प्रत्ययो [ भवति ] धातोश्च लुग्भवति ॥
स्वः स्वर्गः || ९४६ ।।
[९४६-९५२
पूसन्यामिभ्यः पुनसनुतान्ताश्च ||९४७ ||
पूग्य् पवने | बन भक्तौ | अम गतौ । इत्येतेभ्योर् प्रत्ययो भवति यथासंख्यं च पुन सनुत भन्त इत्यादेशा एषां भवन्ति || पुनर्भूयः || सनुतः कालवाची || अन्तर्मध्ये ॥ ९४७ ॥
चतेरुर् || ९४८ ।।
चतेग् याचने | इत्यस्मादुर् प्रत्ययो भवति || चत्वारः संख्या | चत्वारि | चतस्रः ॥ ९४८ ॥
दिवेडिव् || ९४९ ॥
दिवूच् क्रीडादौ । इत्यंस्माडिदिव् प्रत्ययो भवति || द्यौः स्वगेन्तिरिक्षं च | दिवौ । दिवः ॥ ९४९ ॥
विशिविपाशिभ्यां किप् ।। ९५० ।।
आभ्यां क्विष्प्रत्ययो भवति ॥ विशंत् प्रवेशने । विशः प्रजाः । विद्वैश्यः पुरीषमपत्यं च || पशण बन्धने । विपूर्वः । विपाशयति स्म विशिष्टमिति विपाड् नदी || ९५० ॥
सहेः षष् च ॥ ९५१ ॥
हि मर्षणे | इत्यस्मात्किप्पत्ययो [ भवति ] षष् चास्यादेशो भवति ॥ षट् संख्या || ९५१ ।।
अस् ॥ ९५२ ॥
सर्वधातुभ्यो बहुलमस् प्रत्ययो भवति ॥ तर्प संतापे । तपः संतापो माघमासो निर्जराफलं च || अनशनादि सष्ठु तपतीति सुतपाः || एवं महातपाः || णमं प्रहृत्वे | नमः पूजावाची || तमूच् काङ्क्षायाम् । तमोन्धकारस्तृतीयगुणोज्ञानं च ॥ इण्क् गतौ | अयः काललोहम् ॥ वीं प्रजननादौ । वयः पक्षी प्राणिनां कालकृता शरीरावस्था च यौवनादिः || वर्षि दीप्तौ । वर्चो लावण्यमन्नमलं तेजश्च । सुष्ठु वर्चते इति सुवर्चाः || रक्ष पालने | रक्षो निशाचरः ॥ ञिमिदाच् स्नेहने | मेदचतुर्थो धातुः । रह त्यागे | रहः प्रच्छन्नम् || पहि मर्षणे | सहा मार्गशीर्षमासः ॥
Aho! Shrutagyanam