________________
९३८-९४५]
उणादिगणविवृतिः।
इणो दमक् ॥ ९३८ ।। इण्क् गतौ । इत्यस्मात्किहम् प्रत्ययो भवति ।। इदं प्रत्यक्षनिर्देशे ॥९३८||
कोडिम् || ९३९ ॥ कुंक् शब्दे । इत्यम्माडिदिम् प्रत्ययो भवति || किम् | अनेनाविज्ञातं वस्तु पर्यनुयुज्यते ॥ ९३९ ॥
तूषेरीम् णोन्तश्च ॥ ९४०॥ तूष तुष्टौ । इत्यस्मादीम् प्रत्ययो [भवति ] णकारवास्यान्तो भवति ।। तूष्णीं वामियमे ॥ ९४० ॥
ईड्कमिशमिसमिभ्यो डित् ॥ ९४१॥ एभ्यो डिदीम् प्रत्ययो भवति ।। ईडिक् स्तुतौ । ईम् ॥ कगूड् कान्नौ । कीम् ॥ शमूच् उपशमे | शीम् ॥ षम वैक्लव्ये । सीम् । अभिनयव्याहरणान्येतानि ।। ईम् । सीम् । अव्यक्त ।। की संशयप्रभादिषु ।। शीममर्षपादपूरगयोः ॥ ९४१॥
क्रमिगमिक्षमेस्तुमाश्चातः ॥ ९४२ ।। एभ्यस्तुम् प्रत्ययो भवत्यकारस्य च आकारो भवति ॥ क्रमू पादविक्षेपे । क्रान्तुं गमनम् ॥ गएं गतौ । गान्तुं पान्थः ।। क्षमौषि सहने | क्षान्तुं भूमिः ।। तुमर्थश्व सर्वत्र ॥ ९४२ ।। - गृपदुर्विधुर्विभ्यः क्विप् ॥ ९४३॥
एभ्यः क्विप्प्रत्ययो भवति ।। गृश् शब्दे । गीर्वाक् ।। पृश् पालनपुरणयोः । पूनगरी ॥ दुर्वै धुर्वे हिंसायाम् । दूर्देहान्तरवयवः ॥ धूः शकटाङ्गमादिध ॥ ९४३ ॥
वाारौ ।। ९४४ ॥ एतौ किप्प्रत्ययान्तौ निपात्येते ॥ वृणोतेर्वृद्धिश्च | वाः पानीयम् ।। कर्मणि दश्च धात्वादिः । वृण्वन्ति तामिति द्वारम् | दूं वरणे | इत्यस्य च णिगन्तस्य रूपम् ॥ ९४४ ॥
प्रादतेरर || ९४५ ॥ प्रपूर्वात् अत सातत्यगमने | इत्यस्मादर् प्रत्ययो भवति ॥ प्रातः प्रभातम्
Aho ! Shrutagyanam