________________
१५० हेमचन्द्रव्याकरणे
[९२९-९३७ अदोस्त्रन् ।। ९२९ ॥ . अदक् भक्षणे । इत्यस्मात्रिन्प्रत्ययो भवति || अच्यषिः ॥ ९२९ ।।
पतेरत्रिन् ।। ९३०॥ पत गतौ । इत्यस्मादत्रिन्प्रत्ययो भवति ॥ पतत्री पक्षी ॥ ९३० ॥
आपः क्विप् हूस्वश्च ।। ९३१ ॥ आफूट व्याप्ती । इत्यस्मारिकप्प्रत्ययो भवति हस्वश्चास्य भवति || आपोम्भः || स्वभावाद्बहुत्वम् ।। ९३१ ॥
ककुत्रिष्टुबनुष्टुभः ॥ ९३२ ॥ एते क्विप्प्रत्ययान्ता निपात्यन्ते ।। कपूर्वात्स्कुनातेः सलोपश्च | ककुप् कं वायुर्ब्रह्म च । स्कुभ्नन्तीति ककुभो दिशः। ककुबुष्णिक्छन्दः ।। व्यनुपूर्वात्स्तुभ्नाते: सः षश्च | त्रिष्टुबनुष्टुप् च छन्दः ॥ बहुवचनानिजिविजिविषां किम् शित् । नेनिक प्रजापतिः ॥ वेविक् शुचिः ।। वेविट चन्द्रमाः ॥ ९३२॥
अवेर्मः ॥ ९३३ ।। अव रक्षणादौ । इत्यस्मान्मः प्रत्ययो भवति || अवतीति | ओं ब्रह्म प्रणवश्च ।। ९३३ ॥
सोरेतेरम् ॥ ९३४ ॥ सुपूर्वात् इणक् गतौ | इत्यस्मादम् पत्ययो भवति || स्वयमात्मना ||९३४॥
नशिनूभ्यां नक्त नूनौ च ।। ९३५ ॥ नशौच अदर्शने । णूत् स्तवने | आभ्यामम् प्रत्ययो भवति नक्त नून इत्यादेशौ चानयोर्भवतः ॥ नक्तं रात्रौ ।। नूनं वितर्के ॥ ९३५ ।।
स्यतेर्णित् ॥ ९३६ ।। षोंच अन्तकर्मणि । इत्यस्माण्णिदम् प्रत्ययो भवति || सायं दिवसावसानम् ॥ ९३६ ।।
गभिजमिक्षमिकमिशमिसमिभ्यो डित् ।। ९३७ ॥ एभ्यो डिदम् प्रत्ययो भवति || गमं गतौ | गम् ।। जमू अदने । जम् ।। क्षमौषि सहने । क्षम् ।। एतानि भार्यानामानि || कमूड् कान्तौ । के पानीयम् ।। शमूच उपशमे । शं सुखम् ॥ षम वैक्लव्ये । स संभवति ।। ९३७ ॥
Aho I Shrutagyanam