________________
९५३-९५८]
उणादिगणविवृतिः। णभच् हिंसायाम् | नभ आकाशं श्रावणमासश्च ॥ चितै संज्ञाने । चेतचित्तम् । प्रचेता वरुणः ।। मनिंच ज्ञाने । मन नो [?] इन्द्रियम् || ब्रूगक् व्यक्तायां वाचि । वचो वचनम् ।। रुदृक् अश्रुविमोचने । रोदो नभः । रोदसी द्यावापृथिव्यौ || रुळूपी आवरणे । रोधस्तीरम् ।। अनक् प्राणने । अनः शकटं भोजनमन्नं च ।। सं गतौ । सरो जलाशयविशेषः ।। तृप्लवनतरणयोः । तरो वेगो बलं च ।। रहु गतौ । रंहो जवः ।। तिजि क्षमानिशानयोः । तेजो दीप्तिः ।। मयि गतौ । मयः सुखम् ।। मह पूजायाम् | महस्तेजः ।। अणि पूजायाम् । अर्चः पूजा ॥ षद विशरणगत्यवसादनेषु । सदः सभा भवनं च ।। अनौप व्यक्त्यादौ । अञ्जः स्नेहः ।। ९५२ ॥
पाहाभ्यां पयद्यौ च ॥९५३ ।। पा पाने । ओहांक त्यागे । इत्येताभ्यामस् प्रत्ययो भवति यथासंख्यं घ पय ह्य इस्यादेशावनयोर्भवतः || पयः क्षीरं जलं च ।। ह्योनन्तरातीते दिने ।। ९५३ ।।
छदिवहिभ्यां छन्दोधौ च ॥९५४|| ___ छदण संवरणे | वहीं प्रापणे । इत्याभ्यामम् प्रत्ययो भवति यथासंख्यं चानयोश्छन्द ऊध इत्यादेशौ भवतः ।। छन्दो वेद इच्छा वाग्बन्धविशेषश्च ॥ ऊधो धेनोः क्षीराधारः ॥ ९५४ ॥
श्वेः शव च वा ।। ९५५ ।। ट्वोश्वि गतिवृद्धयोः। इन्यस्मादस् प्रत्ययो भव] त्यस्य च शव इत्यादेशो वा भवति ।। शवो रोगाभिधानं मृतदेहश्च । शवसी। शवांसि ॥ श्वयः शोफो बलं च । श्वयसी । श्वयांसि ।। ९५५ ।।
विश्वाद्विदिभुजिभ्याम् || ९५६ ॥ विश्वपूर्वाभ्यामाभ्यामस् प्रत्ययो भवति || विदक् ज्ञाने | विश्ववेदा अग्निः ।। भुजंप पालनाभ्यवहारयोः । विश्वभोजा अग्निर्लोकपालथ ॥९५६ ।।
चायेनों हस्वश्च वा ।। ९५७ ।। चायग् पूजानिशामनयोः । इत्यस्मादस् प्रत्ययो भवति नकारोन्तादेशो हस्य. वास्य वा भवति || वणवाणश्चान्नम् | बाहुलकाण्णत्वम् । णत्वं नेच्छन्त्येके ||९५७||
अशेर्यश्चादिः ।। ९५८ ।। अशश् भोजने । अशौटि व्याप्तौ । इत्यस्मावास् प्रत्ययो भवति यकार
20
Aho ! Shrutagyanam