________________
८४९-८५७]
उणादिगणविवृतिः ।
कुगः कादिः || ८४९ ॥
डुकृंग् करणे । इत्यस्मात्ककारादिरन्धूः प्रत्ययो भवति || कर्कन्धूर्बदरी त्रणं यवलाजा मधुपर्क विष्टम्भव ॥ ८४९ ॥
योगः || ८५० ||
युक् मिश्रणे | इत्यस्मादागूः प्रत्ययो भवति || यवागूर्द्रवौदनः || ८५० ॥ काच्छीडो डेरूः ॥ ८५१ ॥
पूर्वात् शक्त्रिमे । इत्यस्माडिदेरूः प्रत्ययो भवति || कशेरूः कन्दविशेषो वीरुच || ८५१ ॥
दिव ऋः ।। ८५२ ॥
दिवच् क्रीडादौ । इत्यस्मादृः प्रत्ययो भवति || देवा देवर: पितृव्यख्यमिश्व ॥ ८५२ ।
१३९
सोरसेः || ८५३ ||
सुपूर्वात् असूत्र क्षेपणे । इत्यस्मादृः प्रत्ययो भवति ॥ स्वसा भगिनी || ८५३॥ नियो डित् || ८५४ ॥
णींम् प्रापणे | इत्यस्माडिदुः प्रत्ययो भवति || ना पुरुषः || ८५४ ॥ सव्यात्स्थः || ८५५ ॥
सव्यपूर्वात् ष्ठां गतिनिवृत्तौ । इत्यस्माड्डिदृः प्रत्ययो भवति || सव्यष्ठा सारथिः || ८५५ ।।
यतिननन्दिभ्यां दीर्घश्व || ८५६ ॥
यतेः नञ्पूर्वात् नन्देश्व ऋः प्रत्ययो [भव ] त्यनयोश्च दीर्घो भवति ॥ यतैड् प्रयत्ने | याता पतिभ्रातृभगिनी देवरभायी ज्येष्ठभार्या च ॥ टुनदु समृद्धौ । ननान्दा भर्तृभगिनी || नखादित्वान्नञन्न भवति || ८५६ ।।
शासिशंसिनीरुक्षु भृधूमन्यादिभ्यस्तृः || ८५७ ॥
एभ्यस्तृः प्रत्ययो भवति || शास्त्रक् अनुशिष्टौ । शास्ता गुरू राजा च | प्रशास्ता राजर्विक् च ॥ शंसू स्तुतौ च ! शंस्ता स्तोता || णीं प्रापणे । नेता साराथेः || रुक् शब्दे | रोता मेघः || टुक्षुक् शब्दे | क्षोता मुसलम् || हंग् हरणे | हर्ता चौरः ।। टुडुभ्रंग्क् पोषणे च । भर्ता पतिः || धृड् अवध्वंसने || धत धर्मः || मनिच् ज्ञाने | मन्ता विद्वान्प्रजापतिश्च || आदिग्रहणात् उपद्रष्टरित्रक् । विशस्ता घातक इत्यादयोपि ।। ८५७ ॥
Aho! Shrutagyanam