SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ १३८ हेमचन्द्रव्याकरणे [-४१-८४८ दृभिचपेः स्वरान्नोन्तश्च ॥ ८४१ ॥ आभ्यामू: प्रत्ययो भवति स्वराज्य परो नोन्तो भवति ॥ वृमैत् ग्रन्थे । दृन्भूः सर्पजातिवनस्पतिर्वत्रो ग्रन्थकारो दर्भणं च | बाहुलकानकारस्य मां धुट्वर्गेन्त्योपदान्त इति न भवति || चप सान्त्वने । चम्पः कथाविशेषः ॥ ८४१ ॥ धृषदिधिषदिधीषौ च ॥ ८४२ ।। अिधृषाट् प्रागल्भ्ये । इत्यस्मादः प्रत्ययो [ भवति ] दिधिष् दिधीष् इत्येतावादेशावस्य भवतः ।। दिधिषायस्याः पूर्वपरिणीता पुंश्चली च ॥ दिधीपूरूढाया: कनिष्ठाया अनूढा ज्येष्ठा पुनर्भूराहुतिश्च ॥ ८४२ ॥ भ्रमिगमितनिभ्यो डित् ।। ८४३ ।। एभ्यो डिदः प्रत्ययो भवति ॥ भ्रमूच् अनवस्थाने । भ्ररक्ष्णोरुपरि रोमराजिः ॥ गमं गतौ । अग्रे गच्छति । अग्रेगूः पुरःसरः ॥ तनूयी विस्तारे । कुत्सितं तन्यते | कुतूश्चर्ममयमावपनम् ॥ ८४३ ॥ नतिशृधिरुषिकुहिभ्यः कित् ॥ ८४४ ॥ एभ्यः किदः प्रत्ययो भवति ॥ नतैच् नर्तने । नतूर्नर्तकः कृमिजातिः प्लवः प्रतिकृतिश्च ॥ शुधूड् शब्दकुत्सायाम् । शृधः शर्धनः कृमिजातिरपानं बलिश्च दानवः।। रुषच् रोषे । रुषर्भर्त्सकः ॥ कुहणि विस्मापने । कुहूरमावास्या ||८४४॥ तृखडिभ्यां डूः ॥ ८४५ ॥ आभ्यां डूः प्रत्ययो भवति ॥ तृ प्लवनतरणयोः । नौणी प्लवः परिवेषणभाण्डं च ॥ खडण भेदे । खर्बालानामुपकरणं स्त्रीणां पादाङ्गुष्ठाभरणं च ।। ८४५ ॥ तृभ्यां दूः ॥ ८४६ ॥ आभ्यां दूः प्रत्ययो भवति || तु प्लवनतरणयोः। तर्दूर्दी ॥ दृश् विदारणे]। दर्दूः कुष्ठभेदः ॥ ८४६ ॥ कमिजनिभ्यां बूः ॥ ८४७॥ आभ्यां बूः प्रत्ययो भवति ॥ कमूड् कान्तौ । कम्बूभूषणमादर्शन्सरुः कुरुविन्दश्च ॥ जनैचि प्रादुर्भावे । जम्बूक्षजातिः ॥ ८४७ ॥ शकेरन्धूः ॥ ८४८ ॥ शकुंट शक्तौ । इत्यस्मादन्धः प्रत्ययो भवति ।। शकन्धूवनस्पतिर्देवताविशेषश्च ॥ ८४८ ।। Aho ! Shrutagyanam
SR No.034211
Book TitleUnadigana Sutra
Original Sutra AuthorHemchandracharya
Author
PublisherEducation Society Press
Publication Year1895
Total Pages314
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy