________________
_८३४–८४०]
उणादिगणविवृतिः ।
१३७
शुद्धी रजको नद्यास्तीरं शिला च ॥ गुणे सिद्धे गुणवचनमकारस्य वृद्धिबाध
नार्थम् ॥ ८३३ ॥
अजेर्जोन्तश्च || ८३४ ॥
अज क्षेपणे च । इत्यस्मादूः प्रत्ययो भवति ] कारश्रान्तो भवति ॥ अज्जूर्जननी || ८३४ |
सिद्यर्त्यादिभ्यो णित् ।। ८३५ ।।
एभ्यो णिदूः प्रत्ययो भवति ॥ कस गतौ । कासू: शक्तिर्नामायुधं वाग्विकलो बुद्धिर्व्याधिर्विकला च वाक् || पर्दिच् गतैः । पादू: पादुका || ऋक् गतौ । आर्वृक्षविशेषः कच्छूर्गतिः पिङ्गल || आदिग्रहणात् कचतेः | काचूः । शलतेः । शालूरित्यादयोपि || ८३५ ॥
अर्डीन्तश्व || ८३६ ॥
अणेर्धातोर्णिदूः प्रत्ययो भवति डश्वान्तो भवति ।। अण शब्दे | भाण्डुर्जलभृङ्गारः ।। ८३६ ॥
अडोल च वा ॥ ८३७ ॥
अड उद्यमे । इत्यस्माणिः प्रत्ययो भवति लकारश्चान्तादेशो वा भवति || आलूर्भुङ्गारः करकश्च || आडूर्दर्वी टिट्टिभो वनस्पतिर्जलाधारभूमिः पादभेदनं च ॥ ८३७ ।।
नञो लम्बेर्नलुक् च ॥ ८३८ ॥
नञ्पूर्वात् लबुड् अवस्रंसने च । इत्यस्माण्णिदुः प्रत्ययो भवति नकारस्य च लुग्भवति || अलाबस्तुम्बी || ८३८ ॥
कफादीरेले च || ८३९ ॥
A
कफपूर्वात् ईरिक् गतिकम्पनयोः । इत्यस्मादूः प्रत्ययो भवति लश्चान्तादेशो भवति || कफेलूः श्लेष्मातको यवलाजा मधुपर्क छादिषेयं च तृणम् ।। ८३९ ।। ऋतो रत च ।। ८४० ॥
ऋत घृणागतिस्पर्धेषु | इत्यस्मादुः प्रत्ययो [ भवति ] रत इति चास्यादेशो भवति || रतूर्नदीविशेषः सत्यवाग्दूतः कृमिविशेषश्व || ८४० ||
18
Aho! Shrutagyanam