________________
१३० हेमचन्द्रव्याकरणे
[७५६-७८४ आपोप् च ।। ७७६ ॥ आट व्याप्तौ | इत्यस्मात्तुन् प्रत्ययो भवत्यस्य च अप् इत्यादेशो भवति || अमुर्देवताविशेषः कालो याजको यज्ञयोनिश्च ।। ७७६ ।।
अङ्ग्यतः कित् ।। ७७७ ।। आभ्यां कित्तुन् प्रत्ययो भवति ।। अनौप व्यक्त्यादिषु । अक्तुरिन्द्रो विष्णू रात्रिश्च ।। क् गनौ । ऋतुहेमन्तादिः स्त्रीरजस्तत्कालश्च ।। ७७७ ॥
चायः के च ।। ७७८ ।। चायग् पूजानिशामनयोः ! इत्यस्मात्तुन् प्रत्ययो भवत्यस्य च के इत्यादेशो भवति ।। केतुर्ध्वजो ग्रहश्च ॥ ७७८ ॥
वहिमहिगुह्यधिभ्योतुः ।। ७७९ ।। एभ्योतुः प्रत्ययो भवति || वहीं प्रापणे । वहतुर्विवाहोनडानमिः कालथ ।। मह पूजायाम् । महतुरग्निः ।। गुहौग संवरणे । गृहतुर्भूमिः ॥ एधि बृद्धौ । एधतुर्लक्ष्मीः पुरुषोग्निश्च ।। ७७९ ॥
___ कृलाभ्यां कित् ।। ७८० ।। आभ्यां किदत्तुः प्रत्ययो भवति ॥ डुकुंग करणे ] ऋतुर्यज्ञः ।। लांक् आदाने | लतुः पाशः ॥ ७८० ॥
तनेर्यतुः ॥ ७८१ ।। तनूयी विस्तारे । इत्यस्माद्यतुः प्रत्ययो भवति ॥ तन्यतुर्विस्तारो वायु: पर्वतः सूर्यश्च ॥ ७८१॥
__ जीवरातुः ।। ७८२ ॥ जीव प्राणधारणे । इत्यस्मादातुः प्रत्ययो भवति || जीवातुर्जीवितमौषधमनमुदकं द्रव्यं च ।। ७८२ ॥
यमेटुक् ।। ७८३ ।। यमूं उपरमे | इत्यस्मारिकदुः प्रत्ययो भवति ।। यदुः क्षत्रियः ॥७८३॥
शीडो धुक् ।। ७८४ ।। शीड्क् स्वप्ने । इत्यस्मारिकत् धुः प्रत्ययो भवति ॥ शीधु मद्यविशेषः ॥ ७८४ ।।
Aho I Shrutagyanam