________________
१२२
हेमचन्द्रव्याकरणे
अशेरान्नोन्तश्च ।। ७१९ ॥
अशौटि व्याप्तौ । इत्यस्मादुः प्रत्ययो [ भव ]त्यकाराश्च परो नान्तो भवति || अंशू रश्मिः सूर्यश्व | प्रांशुर्दीर्घश्च ।। ७१९ ॥
नमेर्नाक् च ।। ७२० ॥
2
[ ७१९-७२६
णमं प्रहृत्वे | इत्यस्मादुः प्रत्ययो [भव ] त्यस्य च नाक् इत्यादेशो भवति || नाकुर्व्यलीकं वनस्पतिर्ऋषिर्वल्मीकश्च || ७२० ||
मनिजनिभ्यां धतौ च ॥ ७२१ ॥
भाभ्यामुः प्रत्ययो [भव ]त्यनयोश्च यथासंख्यं धकारतकारौ भवतः || मर्निच् ज्ञाने । मधु क्षौद्रं सीधु च । मधुरसुरो मासश्च चैत्रः || जनैचि प्रादुर्भावे | जतु लाक्षा || ७२१ ॥
अर्जेर्कज् च ॥ ७२२ ॥
अर्ज अर्जने | इत्यस्मादुः प्रत्ययो [भव ] त्यस्य च ऋज् इत्यादेशो भवति । ऋज्वकुटिलम् || ७२२ ॥
कृतेस्तर्क च ।। ७२३ ||
कृतैत् छेदने । कृतैर् वेष्टने | इत्यस्माद्वा उः प्रत्ययो [भव ] त्यस्य च तर्क इत्यादेशो भवति || तर्कशुन्दः सूत्रवेष्टनशलाका च ॥ ७२३ || नेरञ्चैः ।। ७२४ ॥
निपूर्वादञ्चतेरुः प्रत्ययो भवति || न्यङ्कर्मृग ऋषिश्च ।। ७२४ ।। किमः श्री णित् || ७२५ ॥
किम्पूर्वात् शृश् हिंसायाम् । इत्यस्माण्णिदुः प्रत्ययो भवति || किशारुः शूको धान्यशिखा हिंस्र इषुच || ७२५ ||
मिवहिचरिचटिभ्यो वा || ७२६ ॥
एभ्य उ: प्रत्ययो [भवति ] स च णिवा भवति
डुमिंग्ट् प्रक्षेपणे | मायुः पित्तं मानं शब्दश्व | गोमायुः सृगालः || मयुः किंनर उष्ट्र: प्रक्षेप आकूतं च | बाहुलकादात्वाभावः || वहीं प्रापणे । बाहुर्भुजः || बहु प्रभूतम् || चर भक्षणे च । चारु शोभनम् || चरन्त्यस्माद्देवपितृभूतानि | भीमादित्वादपादानेपि | चरुर्देवतेोद्देशेन पाकः स्थाली च || चटण् भेदे | चाटुः प्रियाचरणं पटुजनः प्रियवादी स्फुटवादी दमं शिष्यश्च || चटुः प्रियाचरणम् ।। ७२६ ।।
Aho ! Shrutagyanam