________________
हेमचन्द्रव्याकरणे
[६८०-६-८ सदिवृत्यमिधम्यश्यटिकट्यवेरनिः ।। ६८० ॥ , एभ्योनिः प्रत्ययो भवति ॥ षढं विशरणादौ । सदनिर्जलम् ॥ वृतूड् वर्तने | वर्तनिः पन्था देशनाम च || अम गतौ । अमनिरग्निः॥ धमः सौत्रः । धमनिर्मन्या रसवहा च सिरा ॥ अशौटि व्याप्ती | अशनिरिन्द्रायुधम् ।। अट गतौ | अटनिचापकोटिः ॥ कटे वर्षावरणयोः । कटनिः शैलमेखला || अव रक्षणादौ । अवनिर्भूः ॥ ६८० ॥
रख्नेः कित् ॥ ६८१ ॥ रञ्जी रागे । इत्यस्मात्किदनिः प्रत्ययो भवति ॥ रजनी रात्रिः ॥६८१॥
अतॆरत्निः ।। ६८२॥ ऋक् गतौ । इत्यस्मादनिः प्रत्ययो भवति ।। अरनिर्बाहुमध्यं शम उत्कनिष्टश्च हस्तः ॥ ६८२ ॥
एधेरिनिः ॥ ६८३ ॥ एधि वृद्धी । इत्यस्मादिनिः प्रत्ययो भवति ॥ एधिनिर्मेदिनी ॥ ६८३ ॥
शकेरुनिः॥ ६८४ ॥ शकुंट शक्ती । इत्यस्मादुनिः प्रत्ययो भवति || शकुनिः पक्षी ॥ ६८४ ॥
अदेर्मनिः ॥ ६८५॥ अदं प्सांक् भक्षणे । इत्यस्मान्मनिः प्रत्ययो भवति ॥ अद्मनिः पशूनां भक्षणद्रोण्यग्निर्जयो हस्त्यश्वस्तालु च ॥ ६८५ ॥
दमर्दुभिर्दुम् च ।। ६८६ ॥ दमन् उपशमे । इत्यस्माहुभिः प्रत्ययो [भव ]त्यस्य च दुम् इत्यादेशो भवति ॥ दुन्दुभिर्देवतूर्यम् ॥ ६८६ ।।
नीसावृयुशवलिदलिभ्यो मिः ॥ ६८७ ॥ एभ्यो मिः प्रत्ययो भवति ॥ णींग प्रापणे । नेमिश्चक्रधारा ॥ षोंच अन्तकर्मणि | साम्यर्धवाच्यव्ययम् ।। वृग्ट् वरणे । वर्मिर्वल्मीककृमिः ॥ युक् मिश्रणे | योमिः शकुनिः ।। शश् हिंसायाम् । शर्मिगः ॥ वलि संवरणे | वल्मिरिन्द्रः समुद्रश्च ।। दल विशरणे । दल्मिरायुधमिन्द्रः समुद्रः शक्रो विषं च।।६८७॥
अशो रश्चादिः ॥ ६८८ ॥ ..: अशोटि व्याप्तौ । इत्यस्मान्मिः प्रत्ययो [ भवति ] रेफश्च धातोरादिर्भवति ॥ रहिमः प्रमही मयूखश्च ।। ६८८ ।।
Aho 1 Shrutagyanam