________________
११४
हेमचन्द्रव्याकरणे विलत् वरणे । विलस्तिः॥ पुल महत्त्वे | पुलस्तिः ।। क्षिपीत् प्रेरणे | क्षिपस्तिः॥ पते लौकिका ऋषयः । अगस्तिर्वृक्षजातिश्च ॥ ६६० ॥
- गृधेर्गभ च ।। ६६१॥ गृधून् अभिकाायाम् । इत्यस्मादस्तिक् प्रत्ययो भवति गभ चास्यादेशो भवति ॥ गभस्ती रश्मिः ॥ ६६१ ॥
वस्यतिभ्यामातिः ॥ ६६२ ।। आभ्यामातिः प्रत्ययो भवति ॥ वसं निवासे । वसातयो जनपदः ।। कंक् गतौ । अरातिः शत्रुः ॥ ६६२॥
अभेर्यामाभ्याम् ।। ६६३ ॥ अभिपूर्वाभ्यामाभ्यामातिः प्रत्ययो भवति ॥ यांक प्रापणे | मांक माने । अभियातिरभिमातिश्च शत्रुः ॥ ६६३ ।।
___ यजो य च ॥ ६६४ ॥ यजी देवपूजादौ । इत्यस्मादातिः प्रत्ययो भवति] यकारश्चान्तादेशो भवति ।। ययाती राजा ॥ ६६४ ॥
वद्यविछदिभूभ्योन्तिः ॥ ६६५॥ एभ्योन्तिः प्रत्ययो भवति ॥ वद व्यक्तायां वाचि । वदन्तिः कथा ॥ अव रक्षणादिषु । अवन्ती राजा | अवन्तयो जनपदः ।। छदण् अपवारणे | युजादिविकल्पितणिजन्तस्वादण्यन्तः । छदन्तिर्गृहाच्छादनद्रव्यम् ॥ भू सत्तायाम् । भवन्तिः कालो लोकस्थितिश्च ।। ६६५ ।।
शकेरुन्तिः ॥ ६६६ ॥ शक्ट शक्तौ । इत्यस्मादुन्तिः प्रत्ययो भवति ॥ शकुन्तिः पक्षी ॥ ६६६ ॥
नमो दागो डितिः॥ ६६७॥ नपूर्वात् डुदांग्क् दाने । इत्यस्माडिदितिः प्रत्ययो भवति ॥ अदितिदेवमाता ॥ ६६७ ॥
देडः ॥ ६६८ ॥ दें पालने । इत्यस्माडिदितिः प्रत्ययो भवति || दितिरमुरमाता॥६६८॥
वीसध्यसिभ्यस्थिक् ॥ ६६९॥ एभ्यस्थिक् प्रत्ययो भवति ।। वींक प्रजननादिषु । वीथिर्मार्गः ॥षनं सङ्गे । पश्चिमकः शकटाङ्गं च ॥ असूच क्षेपणे । अस्थि पञ्चमो धातुः ॥६६९॥
Aho 1 Shrutagyanam