________________
६५२-६६०]
उणादिगणविवृतिः ।
कुतश्व || ६५२ ॥
आभ्यां कित्तिः प्रत्ययो भवति नकारश्चान्तो भवति || कुंड् शब्दे | कुन्ती राजा | कुन्तयो जनपदः || चिंग्ट् चयने | चिन्ती राजा || ६५२ ॥ खल्यमिरमिवहिवस्यर्तेरतिः ।। ६५३ ।।
११३
एभ्योतिः प्रत्ययो भवति || खल संचये च । खलतिः खल्वाटः || अम गतौ | अमतिश्वातकश्छागः प्रावृण्मार्गो व्याधिर्गतिश्व || रमिं क्रीडायाम् | रमतिः क्रीडा कामः स्वर्गः सभा च ॥ वहीं प्रापणे । वहतिगैौर्वायुरमात्यो पत्यं कुटुम्बं च || वसं निवासे | वसतिर्निवासो ग्रामसंनिवेशश्च ।। ऋक् गतौ | अरतिर्वायुः सरणमसुखं क्रोधो वर्म च ।। ६५३ ॥
हन्तेरह च || ६५४ ॥
हर्नक् हिंसागत्योः । इत्यस्मादति: प्रत्ययो [ भव ] त्यस्य च अंह इत्यादेशो भवति || अंहतिर्व्याधिः पन्थाः कालो रथश्च ।। ६५४ ||
वृगो व्रत च ।। ६५५ ॥
वृग्ट् वरणे । इत्यस्मादतिः प्रत्ययो [भव ] त्यस्य च व्रत इत्यादेशो भवति || व्रततिर्वल्ली ॥ ६५५ ॥
अच्चेः क व वा ॥ ६५६ ॥
अञ्च गतौ च । इत्यस्मादति: प्रत्ययो [ भवति ] ककार शान्तादेशो वा भवति || अङ्कतिर्वायुः प्रजापतिरभिश्व || अञ्चतिरभिः ।। ६५६ ।।
वातेर्णिद्वा || ६५७ ॥
वांक् गतिगन्धनयोः | इत्यस्मादति: प्रत्ययो [ भवति ] स च णिवा भवति ॥ वायतितः ॥ वातिर्गन्धमिश्रपवनः || ६५७ ॥
योः कित् ।। ६५८ ॥
युक् मिश्रणे | इत्यस्मात्किदतिः प्रत्ययो भवतेि ।। युवतिस्तरुणी || ६५८ || पाते ।। ६५९ ।।
पांक् रक्षणे । इत्यस्मादति: प्रत्ययो [भवति ] स च किवा भवति || पतिभर्ता || पातिर्भर्ता रक्षिता प्रभुश्च ।। ६५९ ॥
अगिविलिपुलिक्षिपेरस्तिक् || ६६० ||
एभ्यः किदस्तिः प्रत्ययो भवति || अग कुटिलायां गतौ । अगस्तिः ||
15
Aho! Shrutagyanam