________________
६३८-६४४]
उणादिगणविवृतिः।
ऋहसमृधृभृकृतृाहेरणिः ॥ ६३८ ॥ एभ्योणिः प्रत्ययो भवति ॥ क् गतौ | अरणिरमिमथनकाष्ठम् ॥ हंग् हरणे | हरणिः कुल्या मृत्युश्च ।। सं गतौ । सरणिरीषद्गतिः पन्था आदित्यः सिरासंघातश्च ॥ मुंत् प्राणत्यागे । मरणी रात्रिः || धुंग धारणे । धरणिः क्षितिः ॥ टुडुभंगक् पोषणे च । भरणिनक्षत्रम् || डुकंग करणे । करणिः सादृश्यम् ॥ तृ प्लवनतरणयोः। तरणिः संक्रम आदित्यो यवागूः पतितगोरूपोत्थापनी च यष्टिः। वै दुःखार्थे । दुःखेन तीर्यत इति वैतरणी नदी ।। ग्रहीश उपादाने । ग्रहणिजेठराग्निस्तदाधारो व्याधिर्मेद्रं मृत्युश्च ।। ६३८ ॥
कङ्केरिचास्य वा ॥ ६३९॥ ककुड् गतौ । इत्यस्मादणिः प्रत्ययो [भवति ] धातोरकारस्य च इकारी वा भवति ॥ कङ्कणिः कङ्कणम् ॥ किङ्कणिर्घण्टा ॥ ६३९ ।।
कणित् ॥ ६४०॥ ककि लौल्ये । इत्यस्माणिदणिः प्रत्ययो भवति ॥ काकणिर्मानविशेषः ॥ ६४०॥
कृषेश्च चादेः ॥ ६४१॥ कृषीत् विलेखने । इत्यस्मादणिः प्रत्ययो भव त्यादेश्च चकारो भवति ।। चर्षणिश्वमूरनिर्बुद्धिर्व्यवसायो वेश्या वृषश्च ॥ ६४१॥
क्षिपेः कित् ॥ ६४२॥ क्षिपीत् प्रेरणे | इत्यस्मात्किदणिः प्रत्ययो भवति ॥ क्षिपणिरायुधं वडिशबन्धकश्चर्मकृता पाषाणसर्जनी च ।। ६४२ ॥
आडः कृहशुषेः सनः ॥ ६४३॥ आडः परेभ्यो डुकंग करणे । हंग् हरणे । शुषंच् शोषणे । इत्येतेभ्यः सनन्तेभ्योणिः प्रत्ययो भवति ।। आचिकीर्षणिर्व्यवसायः ।। आजिहीर्षाणिः श्रीः ॥ आशुशुक्षणिरनिर्वायुश्च ।। ६४३ ॥
वारिसादरिणिक् ॥ ६४४ ।। एभ्यः किदिणिः प्रत्ययो भवति ॥ वृगट् वरणे । ण्यन्तः । वारिणिः पशुः पशुवृत्तिश्च ।। सं गतौ | निणिरनिर्वचं च ॥ आदिग्रहणादन्येपि ॥ ६४४ ।।
Aho! Shrutagyanam