________________
१०९
६२२-६३१]
उणादिगणविवृतिः।
अशी रश्चादिः ॥ ६२२॥ अशौटि व्याप्ती । इत्यस्माणिदिः प्रत्ययो [ भवति ] रेफश्च धातोरादिर्भषति || राशिः समूहो नक्षत्रपादनवकरूपश्च मेषादिः ॥ ६२२ ॥
कायः किरिच वा ।। ६२३ ॥ मैं शब्दे | इत्यस्मात्किः प्रत्ययो भवति इकारश्चान्तादेशो वा भवनि || किकिः पक्षी विद्वांश्च ।। काकिः स्वरदोषः ।। ६२३ ॥
वधैरकिः ।। ६२४ ।। वर्धण् छेदनपूरणयोः। इत्यस्मादकिः प्रत्ययो भवति ।। वर्धकिस्तक्षा।।६२४॥
सनेर्डखिः ॥ ६२५ ।। षयी दाने | इत्यस्माडिदखिः प्रत्ययो भवति ॥ सखा मित्रम् | सखायौ । सखायः ॥ ६२५ ॥
कोडिखिः ॥ ६२६ ॥ कुंक् शब्दे । इत्यस्माडिदिखिः प्रत्ययो भवति || किखिोमसिका||६२६॥
___ मृश्चिकण्यणिदध्यविभ्य ईचिः ॥ ६२७ ॥
एभ्य ईचिः प्रत्ययो भवति ।। मृत् प्राणत्यागे । मरीचिर्मुनिमयूखश्च ।। दोश्व गतिवृद्धयोः । श्वयीत्रिश्चन्द्रः श्वयथुश्च ॥ कण अण शब्दे । कणीचिः प्राणी लता चक्षुः शकटं शश्च ॥ अणीचिर्वेणुः शाकटिकश्च ॥ दधि धारणे । दधीची राजर्षिः ॥ अव रक्षणादौ । अवीचिर्नरकविशेषः ॥ ६२७ ॥
वेगो डित् ॥ ६२८॥ वेंग् तन्तुसंताने | इत्यस्माजिदीचिः प्रत्ययो भवति || वीचिरूमिः ॥६२८||
वणेणित् ।। ६२९॥ वण शब्दे । इत्यस्माण्णिदीचिः प्रत्ययो भवति || पाणीचिश्या व्याधिश्व ॥ ६२९ ॥
___ कृषिशकिभ्यामटिः ॥ ६३० ॥ आभ्यामटिः प्रत्ययो भवति ॥ कृपौड् सामर्थे । कर्पटिः निःस्वः ।।शकंट शक्तौ । शकटिः शकटम् ।। ६३० ॥ .
श्रेडिः ॥ ६३१ ॥ श्रिग् सेवायाम् । इत्यस्माडिः प्रत्ययो भवति ।। श्रेडिर्गणितव्यवहारः ।।६३१॥
Aho! Shrutagyanam