________________
२०६ हेमचन्द्रव्याकरणे
[६१०-६१३ । राजा कुटिलं च ॥ कुणत् शब्दोपकरणयोः । कुणिविकलो हस्तो हस्तविकलश्च ।। सृजत् विसर्गे । मृजिः पन्थाः ॥ द्युति दीप्तौ । युतिर्दाप्तिः ॥ ऋत घृणागतिस्पधेषु । ऋतिर्यतिः ॥ छिद्रंपी द्वैधीकरणे | छिदिरछेत्ता परशुश्च ।। मुदि हर्षे । मुदिर्बालः ॥ भिदंपी विदारणे । भिदिर्वजं सूचको भेत्ता च ॥ ऊछदपी दीप्निदेवनयोः । फुदी रथकारः ॥ लिपीत् उपदेहे । लिपिरक्षरजातिः ।। तुर त्वरणे सौत्रः । तुरिस्तन्तुवायोपकरणम् || दुलण् उत्क्षेपे | दुलिः कच्छपः ।। त्विषीं दीप्तौ । विषिर्दीप्तिस्त्विषिमात्राजवर्चस्वी च ॥ कृषीत् विलेखने । कृषिः कर्षणं कर्षणमूमिश्च ॥ ऋषैत् मतौ । ऋषिमुनिर्वेदश्च । कुषश् निष्कर्षे । कुषिः शुषिरम् ।। शुषच् शोषणे | शुषिश्छिद्रं शोषणं च ॥ हृषू अलीके । हषिरलीकवादी दीप्तिस्तु. टिश्च ।। ष्णुहीच उद्गिरणे | स्नुहिर्वक्षः ॥ कृत् विक्षेपे । किरिः शूकरो मूषिको गन्धर्वो गर्तश्च ।। गृत् निगरणे । गिरिर्नगः कन्दुकश्च ।। शृश् हिंसायाम् । शिरिर्हिस्रः शोकः खड़ः पाषाणच || पृश् पालनपूरणयोः । पुरिनगरं राजा पूरयिता च ॥ पूड् पक्ने | पुविर्वातः ॥ ६०९ ॥
विदिवृतेर्वा ।। ६१० ॥ आभ्यामिः प्रत्ययो भवति स च किहा भवति ।। विदक् ज्ञाने । विदिः शिल्पी । वेदिरिज्यादिस्थानम् ।। वृतूड् वर्तने । वृतिः कण्टकशाखावरणम् । निर्वृतिः सुखम् । वर्तिव्यं दीपा च ॥ ६१० ॥
तृभ्रम्यद्यापिदम्भिभ्यस्तित्तिरभृमाधापदेभाश्च ॥ ६११ ॥
एभ्यः किदिः प्रत्ययो [भव ]त्येषां च यथासंख्यं तित्तिर भृम अध अप देभ इत्यादेशा भवन्ति ॥ तृ प्लवनतरणयोः । तित्तिरिः शकुनिजातिः प्रवक्ता च वेदशाखायाः ।। भ्रमू चलने । भूमिर्वायुर्हस्ती जलं च | बाहुलकाङ्ग्रमादेशाभावे । भ्रमिर्धमः ॥ अदं प्सांक भक्षणे । अध्युपरिभावे । अध्यागच्छति ।। आफूट व्याप्तौ । अपि समुच्चयादौ | पक्षोपि न्यग्रोधोपि || दम्भूट दम्भे | देभिः शरासनम् ॥६११॥
मनरुदेती चास्य वा ।। ६१२॥ मनिच् ज्ञाने । इत्यस्मादिः प्रत्ययो [भव ] त्यकारस्य च उकार-एकारी वा भवतः ॥ मुनिर्ज्ञानवान् ॥ मेनिः संकल्पः ॥ मनिर्धूमवर्तिः ॥ ६१२ ॥ .
क्रमितमिस्तम्भरिच नमेस्तु वा ॥ ६१३ ॥ एभ्यः किदिः प्रत्ययो [भव त्यकारस्य च इकारो भवति नमः पुनरकारस्य
Aho 1 Shrutagyanam