________________
६०८-६०९]
उणादिगणविवृत्तिः। मन्त्रिण गुप्तभाषणे । मन्त्रिः सचिवः ॥ खडुप भेदे । खण्डिः प्रहारम् ।। मडु भूषायाम् । मण्डिर्मुद्भाजनपिधानम् || चडुड् कोपे । चण्डिर्भामिनी ॥ यतैड् प्रयत्ने । यतिभिक्षुः ॥ अौप् व्यक्तिम्रक्षणगतिषु । अञ्जिः सज्जः पेषणी पेजो गतिश्च । समञिः शिनः ।। मसैच् परिणामे । मसिः शस्त्री ॥ असूच क्षेपणे । असिः खगः॥ वनूयी याचने । वनिः साधुर्याच्या शकुनिरनिश्च || ध्वन शब्दे । ध्वनिर्नादः ॥ षन भक्तौ । सनिः संभक्ता पन्था दानं म्लेच्छो नदीतटं च || गमुं गतौ । गमिराचार्यः ॥ तमूच काडायाम् । तमिरलसः ।। ग्रन्थश् संदर्भ । श्रन्थश् मोचनप्रतिहर्षणयोः । ग्रन्थिः श्रन्थिश्च पर्वसंध्यादि ॥ जनैचि प्रादुर्भावे । जनिर्वधूः कुलाङ्गना भगिनी प्रादुर्भावश्च ॥ मण शब्दे । मणी रत्नम् ॥ आदिग्रहणात् वहीं प्रापणे | वहिरश्वः ॥ खादृ भक्षणे | खादिः श्वा ।। दधि धारणे । दधि क्षीरविकारः ॥ खल संचये च | खलिः पिण्याकः ।। शचि व्यक्तायां वाचि । शचीन्द्राणी । इतोत्यर्थादिति गौरादित्वाहा डीः ।। इत्यादयोपि भवन्ति ।।६०७॥ किलिपिलिपिशिचिटित्रुटिशुण्ठितुण्डिकुण्डिभण्डिहुण्डिहिण्डिपिण्डि
चुल्लिबुधिमिथिरुहिदिविकीर्त्यादिभ्यः ॥६०८|| एभ्य इ. प्रत्ययो भवति ॥ किलत् श्वैत्यक्रीडनयोः। केलिः क्रीडा ॥ पिलण् क्षेपे । पेलिः क्षुद्रपेला || पिशत् अवयवे । पेशिौसखण्डम् || चिट प्रेष्ये । चेटिर्दारिका प्रेष्या च ॥ त्रुटत् छेदने । ण्यन्तः | त्रोटिश्चञ्चुः ॥ शुटु शोषणे । शुठिविश्वभेषजम् ॥ तुडुड तोडने | तुण्डिरास्यं प्रवृद्धा च नाभिः ।। कुडुड् दाहे । कुण्डिर्जलभाजनम् ॥ भडुड् परिभाषणे । भण्डिः शकटम् ॥ हुडुड् संघाते । हुण्डिः पिण्डित ओदनः ॥ हिडुड् गतौ च । हिण्डी रात्रौ रक्षाचारः ॥ पिडुड् संघाते । पिण्डिनिष्पीडितस्नेहपिण्डः ॥ चुल्ल हावकरणे । चुल्ली रन्धनस्थानम् ॥ बुधिंच ज्ञाने । बोधिः सम्यग्ज्ञानम् ।। मिथग् मेधाहिंसयोः । मेथिः खलमध्यस्थूणा || रुहं जन्मनि । रोहिः सस्थं जन्म च ॥ दिवूच क्रीडादौ । देविभूमिः।। कृतण संशब्दने । णिजन्तः । कीर्तिर्यशः॥ आदिग्रहणादन्येपि ।।६०८॥
नाम्युपान्त्यकृगृपपूड्भ्यः कित् ।। ६०९ ॥ नाम्युपान्त्येभ्यः क्रादिभ्यश्च किदिः प्रत्ययो भवति ॥ लिखत् अक्षरविन्यासे | लिखिः शिल्पम् ॥ शुच शोके । शुचिः पूतो विद्वान्धर्म आषाढश्व ॥ रुचि अभिप्रीत्यां च । रुचिर्दीप्तिरभिलाषश्च ॥ भुजंप पालनाभ्यवहारयोः । भुजिरमी
14
Aho! Shrutagyanam