________________
१०२
हेमचन्द्रव्याकरणे
[५९०-५९७
णयोः | परहः शंकरः || कटे वर्षावरणयोः | कटहः पर्जन्यः कर्णवश्च कालायसभाजनम् || पट गतौ | पटही वाद्यविशेषः || मट सादे सौत्रः । मटहो ह्रस्वः || लट बाल्ये । लटति बिलसति | लटहो विलासवान् || ललिण् ईप्सायाम् | ललहो लीलावान् || पल गतौ | पलह आवापः || कलि शब्दसंख्यानयोः । कलहो युद्धम् || अनक् प्राणने | अनहो नीरोगः || रंगे शङ्कायाम् । रगहो नटः || लगे सङ्गे । लगहो मन्दः || ५८९ ॥
पुलेः कित् || ५९० ॥
पुल महत्त्व | इत्यस्मात्किदहः प्रत्ययो भवति || पुलहः प्रजापतिः ||५९० ॥ वृकटिशमिभ्य आहः || ५९१ ॥
एभ्य आहः प्रत्ययो भवति || वृग्ट् वरणे | वराहः सूकरः || कटे वर्षा - वरणयोः | कटाहः कर्णवत्कालायसभाजनम् ॥ शमूच् उपशमे । शमाह - श्रमः || ५९१ ॥
विलेः कित् || ५९२ ॥
विलत् वरणे | इत्यस्मात्किदाहः प्रत्ययो भवति || विलाहो रहः || ५९२ || निर इण ऊहश् || ५९३ ॥
निर्र्पूर्वात् इण्क् गतौं | इत्यस्मात् शिदूहः प्रत्ययो भवति || निर्यूहः सीधादिकाष्ठ निर्गमः || ५९३ ॥
दस्त्यूहः || ५९४ ॥
ददात्यूहः प्रत्ययो भवति || दात्यूहः पक्षिविशेषः ।। ५९४ ।। अनेकः || ५९५ ॥
अनक् प्राणने | इत्यस्मादो कहः प्रत्ययो भवति || अनोकहो वृक्षः || ५९५|| वरक्षः || ५९६ ॥
वल संवरणे इत्यस्मादक्षः प्रत्ययो भवति || वलक्ष: शुक्लः ।। ५९६ ।। लाक्षाद्राक्षामिक्षादयः ॥ ५९७ ॥
लाक्षादयः शब्दा अक्षप्रत्ययान्ता निपात्यन्ते || लसेरा च । लाक्षा जतु ॥ रसैर्द्रा च | द्राक्षा मृद्दीका || भङ्पूर्वीत् मृदेरन्त्यस्वरादेर्लुक् प्रत्ययादेरित्वं च | आमिक्षा हविर्विशेषः || आदिग्रहणात् चुप मन्दायां गतौ । इत्यस्य । चोक्षो ग्रामरागः शुद्धं च ॥ एवं पीयूक्षादयोपि ।। ५९७ ।।
Aho ! Shrutagyanam