________________
५९८-६०५]
उणादिगणविवृतिः।
समिग्निकषिभ्यामाः ।। ५९८ ॥ सम्पूर्वात् इण्क् गतौ | इत्यस्मात् निपूर्वात् कष हिंसायाम् । इत्यस्माच आः प्रत्ययो भवति || समया पर्वतम् ॥ निकषा पर्वतम् ।। समीपासूयावाचिनावेतौ ।। ५९८ ॥
दिविपुरिवृषिमृषिभ्यः कित् ।। ५९९ ॥ एभ्यः किदाः प्रत्ययो भवति ॥ दिवूच क्रीडाजयेच्छापणिद्युतिस्तुतिगति. षु । दिवाहः ॥ पुरत् अग्रगमने | पुरा भूतकालवाची ।। वृषू सेचने । वृषा प्रबलमित्यर्थः ॥ मृषीच तितिक्षायाम् । मृषाभूतमित्यर्थः ।। ५९९ ॥
वेः साहाभ्याम् || ६०० ॥ विपूर्वाभ्यां पांच अन्तकर्मणि | ओहांक त्यागे । इत्येताभ्यामाः प्रत्ययो भवति ।। विसा चन्द्रमा बुद्धिश्च । तालव्यान्तोयमित्येके || विहा विहगः स्वर्गश्च ।। ६०० ।।
वृमिथिदिशिभ्यस्थयट्याश्चान्ताः ॥६०१ ॥ एभ्यः किदाः प्रत्ययो भवति यथासंख्यं थकारयकारटयकाराश्चान्ता भवन्ति ।। वृग्ट वरणे । वृथानर्थकम् ।। मिथग् मेधाहिंसयोः । मिथ्या मृषा निष्कलं च ॥ दिशीत् अतिसर्जने । दिष्टया प्रीतिवचनम् ॥ ६०१ ।।
मुचिस्वदेर्ध च ।। ६०२।। आभ्यां किदाः प्रत्ययो [ भवति ] धकारश्चान्तस्य भवति || मुचंती मोक्षणे । मुधानिमित्तम् ।। ष्वदि आस्वादने । स्वधा पितृ बलिः ॥ ६०२ ॥
सोबॅग आह च ।। ६०३ ॥ सुपूर्वात् ब्रूतेराः प्रत्ययो [ भव ]त्याह इति चास्यादेशो भवति ॥ स्वाहा देवतातर्पणम् ।। ६०३ ||
सनिक्षमिदुषेः ।। ६०४ ॥ एभ्यो धातुभ्य आः प्रत्ययो भवति ॥ षणूयी दाने । सना नित्यम् ।। क्षमौषि सहने । क्षमा भूः क्षान्तिश्च ।। दुषंच् वैकृत्ये । दोषा रात्रिः॥ ६०४ ।।
डित् ॥ ६०५ ॥ धातोर्बहुलमाः प्रत्ययो भवति स च डिद्भवति ।। मनिंच ज्ञाने | मा निषेधे । षोंच् अन्तकर्मणि | सावसानम् ।। अनक् प्राणने । आ स्मरणादौ ।। प्रीडच प्रीती । प्रा स्मयने । हनंक हिंसागत्योः । हा विषादे ॥ वन भक्तौ । वा विकले।
Aho! Shrutagyanam