________________
५७९-५८९]
उणादिगणविवृतिः ।
पाटवीभ्यां सिडिसौ ॥ ५७९ ॥
आभ्यां यथासंख्यं दिसो डिदिसश्च प्रत्ययौ भवतः || पट गतौ । पड्डिस आयुधविशेषः ॥ वक् प्रजननादौ । विसं मृणालम् ॥ ५७९ ॥
तसः || ५८० ||
पटिवीभ्यां तसः प्रत्ययो भवति || पट्टसस्त्रिशूलम् || वेतसो वानीरः ||५८०|| इणः ॥ ५८१ ॥
एतेस्तसः प्रत्ययो भवति || एतसोध्वर्युः || ५८१ ॥
पीडो नसक् || ६८२ ॥
पींड्च् पाने । इत्यस्मात्किन्नसः प्रत्ययो भवति || पीनसः श्लेष्मा || ५८२ ॥ कुकुरभ्यां पासः || ५८३ ॥
आभ्यां पासः प्रत्ययो भवति || डुकुंग् करणे | कर्पासः पिचुप्रकृतिर्वीरुच्च || कुरत् शब्दे । कूर्पासः कञ्चुकः || ५८३ ।।
कलिकुलिभ्यां मास || ५८४ ||
आभ्यां किन्मासः प्रत्ययो भवति ॥ कलि शब्दसंख्यानयोः । कल्मासं शबलम् || कुल बन्धुसंस्त्यानयोः | कुल्मासमर्धस्विनं माषादि || ५८४ ॥ अलेरम्बुसः || ५८५ ॥
अली भूषणादौ । इत्यस्मादम्बुसः प्रत्ययो भवति || अलम्बुसो यातुधानः | अलम्बुसा नामौषधिः ॥ ५८५ ॥
१०१
लूगो हः || ५८६ ॥
लुनातेर्हेः प्रत्ययो भवति || लोहं सुवर्णादि || ५८६ ॥
कितो गे च ।। ५८७ ॥
कित निवासे | इत्यस्मात् हः प्रत्ययो [भव ] त्यस्य च गे इत्यादेशो भवति || गेहं गृहम् || ५८७ |
हिंसेः सिम् च ॥ ५८८ ॥
हिसुप् हिंसायाम् । इत्यस्मात् हः प्रत्ययो [ भव ]त्यस्य च सिमित्यादेशो भवति ॥ सिंहो मृगराजः ॥ ५८८ ॥
कटिपटिमटिलटिललिपलिकल्यनिरगिल गेरहः || ५८९ ।।
एभ्योहः प्रत्ययो भवति || कृत् विक्षेपे । करहो धान्यावपनम् ॥ पृश् पालनपूर
Aho! Shrutagyanam