________________
हेमचन्द्रव्याकरणे
अरिषः || ५४६ ॥
ऋक् गतौ । इत्यस्माण्ण्यन्तादिषः प्रत्ययो भवति ॥ अर्पिषमाईमांसम् ।। ५४६ ।।
९६
[५४६-५५३
मह्यविभ्यां टि || ५४७ ॥
आभ्यां विदिषः प्रत्ययो भवति || मह पूजायाम् | महिषः सैरिभो राजा च | महिषी राजपत्नी सैरिभी च || अव रक्षणादौ | अविषः समुद्रो राजा पर्वतश्च । भविष द्यौर्भूमिर्गङ्गा च || ५४७ ||
रुहेर्वृद्धिश्च || ५४८ ।।
रुहं जन्मनि । इत्यस्माट्टिदिषः प्रत्ययो [भवति ] वृद्धिश्वास्य भवति || रौहिषं तृणविशेषोन्तरिक्षं च | रौहिषो मृगः । रौहिषी वाल्या मृगी दूर्वा च ॥ ५४८ ॥ अभिमृभ्यां णित् || ५४९ ॥
आभ्यामिषः प्रत्ययो भवति स च णित् [ भवति ||| अम गतौ | आमिषं भक्ष्यम् || मृश् हिंसायाम् | मारिषो हिंस्रः || ५४९ ॥
तवेवी || ५५० ॥
तव गतौ || इत्यस्मात्सौत्राट्टिदिषः प्रत्ययो [ भवति ] स च णिवा भवति ॥ ताविषस्तविषश्च स्वर्गः ॥ ताविषं तविषं च बलं तेजश्च ॥ ताविषी तविषी च वात्या देवकन्या च ॥ ५५० ॥
कलेः किल्व च ॥ ५५९ ॥
कलि शब्दसंख्यानयोः । इत्यस्माट्टिदिषः प्रत्ययो [ भव] त्यस्य च किल्व इत्यादेशो भवति ॥ किल्विषं पापम् । किल्विषी वेश्या रात्रिः पिशाची च ॥ ५५१ ॥
नमो व्यथेः ॥ ५५२ ॥
नञपूर्वात् व्यथिष् भयचलनयोः । इत्यस्माद्विदिषः प्रत्ययो भवति ।। अव्यविषः क्षेत्रज्ञः सूर्योमिश्च । अव्यथिषी पृथिवी | ५५२ ॥
कृतृभ्यामीषः || ५५३ ॥
आभ्यामीषः प्रत्ययो भवति | कृत् विक्षेपे । करीषः शुष्कगोमयरजः || सृ प्रवनतरणयोः । तरीषः समर्थः स्तम्भः प्रवश्व ॥ ५५३ ॥
Aho! Shrutagyanam