________________
६३८-५४५]
उणादिगणविवृतिः ।
मस्ज्यङ्किभ्यामुशः ॥ ५३८ ॥ आभ्यामुशः प्रत्ययो भवति ।। टुमस्जोत् शुद्धौ । न्यङ्कद्दमेघादय इति गः । मद्गुशो नकुलः ॥ अकुड् लक्षणे | अङ्कशः सृणिः ॥ ५३८ ।। .
' अर्तीणभ्यां पिशतशो ॥ ५३९ ॥ आभ्यां यथासंख्यं पिश तश इत्येतौ प्रत्ययौ भवतः ।। क् गतौ । अर्पिशमा मांसं बालवत्साया दुग्धं च ।। इण्क् गतौ । एतशोश्व ऋषिर्वायुरनिरर्कश्च ।। ५३९ ॥
वृकृतृमीमाभ्यः षः ।। ५४०॥ एभ्यः षः प्रत्ययो भवति ।। वृगट वरणे । वर्षों भर्ता । वर्ष संवत्सरः। वर्षा ऋतुः ।। कृत् विक्षेपे । कर्ष उन्मानविशेषः ।। तृ प्लवनतरणयोः । तर्षः प्लवो हर्षश्च ।। मींच् हिंसायाम् । मेष उरभ्रः॥ मांक माने । माषो धान्यविशेषो हेमपरिमाणं च ॥ ५४० ॥
__ योरूच वा ॥ ५४१ ॥ युक् मिश्रणे । इत्यस्मात् षः प्रत्ययो भव त्यूकारश्चान्तादेशो वा भवति ।। यूषः पेयविशेषः । यूषा छाया । योषा स्त्री || ५४१ ॥
स्नुपूसूम्बर्कलूभ्यः कित् ॥ ५४२ ॥ स्न्वादिभ्योर्क पूर्वाञ्च लुनाते: कित् षः प्रत्ययो भवति || स्नुक् प्रस्नवने । स्नुषा पुत्रवधूः ॥ पुगश् पवने | पूषःपवनभाण्डं शूर्पादिः ।। षून् प्रेरणे | सृषो बलम् ।। मूड् बन्धने | मूषा लोहरक्षणभाजनम् ।। लूग्य् छेदने । अर्कपूर्वः । अर्कलूषः ऋषिः॥ ५४२ ॥
श्लिषेः शे च ॥ ६४३ ॥ श्लिषंच् आलिङ्गने | इत्यस्मात् षः प्रत्ययो [भव]त्यस्य च शे इत्यादेशो भवति ।। शेषा नागराजः ।। ५४३ ॥
कोरषः ॥ ५४४ ॥ कुंड शब्दे । इत्यस्मादषः प्रत्ययो भवति ॥ कवषः क्रोधी शब्दकारश्च ।। ५४४ ॥
युजलेराषः ॥ ५४५ ॥ आभ्यामाषः प्रत्ययो भवति ॥ युक् मिश्रणे । यवाषो दुरालभा ॥ जल घात्ये । जलाषं जलम् ।। ५४५ ॥
Aho ! Shrutagyanam