________________
हेमचन्द्रव्याकरणे
[६२९-६३७ कोर्वा ।। ६२९ ।। कुंड् शब्दे । इत्यस्मात् शः प्रत्ययो [ भवति ] स च किवा भवति ॥ कुशो दर्भः || कोशः सारं कुड्मलं च ॥ ५२९ ।।
क्लिशः के च ॥ ५३० ॥ क्लिशौश् विबाधने । इत्यस्मात् शः प्रत्ययो [भव त्यस्य च के इत्यादेशो भवति ॥ केशा मूर्धजाः ॥ ५३० ॥
उरेरशक् ॥ ५३१ ॥ उर गतौ । इत्यस्मात्सौत्रादशक् प्रत्ययो भवति ।। उरश ऋषिः ॥५३१॥
कलेष्टित् ।। ५३२॥ कलि शब्दसंख्यानयोः । इत्यस्माट्टिदशक् प्रत्ययो भवति ॥ कलशः कुम्भः । कलशी दधिमन्थनभाजनम् ॥ ५३२॥
पलेराशः ॥ ५३३ ॥ पल गतौ । इत्यस्मादाशः प्रत्ययो भवति ।। पलाशो ब्रह्मवृक्षः ॥५३३ ।।
कनेरीश्चातः ॥ ५३४ ॥ कनै दीयादौ । इत्यस्मादाशः प्रत्ययो भवति ईकारवाकारस्य भवति || कीनाशः कर्षको वर्णसंकरः कदर्यश्च । तथा । लुब्धः कीनाशः स्यात्कीनाशोप्युच्यते कृतघ्नश्च । योभात्यामं मांसं स च कीनाशो यमश्चैव ॥ १ ॥ ५३४ ॥
कुलिकनिकणिपलिवडिभ्यः किशः ॥ ५३५ ॥ एभ्यः किदिशः प्रत्ययो भवति || कुल बन्धुसंस्त्यानयोः । कुलिशं वचम् । कनै दीप्त्यादौ । कण शब्दे । कनिशं कणिशं च सस्यमञ्जरी ॥ पल गतौं । पलिशं यत्र स्थिस्वा मृगा व्यापाद्यन्ते ॥ वड आग्रहणे सौत्रः । वडिशं मत्स्यग्रहणम् ।। ५३५॥
बलेणिदा ॥ ५३६ ॥ बल प्राणनधान्यावरोधयोः । इत्यस्माकिशः प्रत्ययो [ भवति ] स च णिवा भवति || बालिशो मूर्खः ॥ बलिशं वडिशम् ।। ५३६ ॥
तिनिशेतिशादयः ॥ ५३७ ॥ तिनिशादयः शब्दाः किशप्रत्ययान्ता निपात्यन्ते ॥ तनेरिन्चातः । तिनिशो वृक्षः ॥ हणस्तोन्तश्च । इतिशो गोत्रकृदृषि || आदिग्रहणादन्येपि ॥ ५३७॥
Aho 1 Shrutagyanam