________________
हेमचन्द्रव्याकरणे
[५०३-५०७ कुशिकमिभ्यां कुल्कुमौ च ।। ५०३ ।। .... आभ्यां मलक प्रत्ययो भवत्यनयोश्च यथासंख्यं कुल कुम् इत्यादेशौ भवतः ॥ कुशच् श्लेषणे | कुल्मलं छेदनम् ।। कमूड् कान्तौ । कुम्मलं पद्मम् ।।५०३॥
पतेः सलः ॥ ५०४ ॥ पतु गत । इत्यस्मात्सलः प्रत्ययो भवति || पत्सलः प्रहारो गोमानाहारश्च ॥ ५०४ ।। लटिखटिखलिनलिकण्यझौसशकगृदृपृशपिश्याशालापदि
हसीणभ्यो वः ॥ ५०५ ॥ एभ्यो वः प्रत्ययो भवति ।। लट वाल्ये । लटा क्षुद्र चटका कुसुम्भं च ।। खट काडे । खटा शयनयन्त्रम् ।। खल संचये च | खल्वं निमं खलीनं च ।। खल्वा दृतिः ।। णल गन्धे | नल्वो भूमानविशेषः ।। कण शब्दे | कण्व ऋषिः । कण्वं पापम् || अशोटि व्याप्ती । अश्वस्तुरंगः ॥ सं गतौ । सर्वः शम्भुः सर्वादि च कृत्स्नार्थे ।। शृश् हिंसायाम् । शर्वः शम्भुः।। कृत् विक्षेपे | कर्व आखुः समुद्रो निष्पत्तिक्षेत्रं च ।। गृत् निगरणे | गर्वोहंकारः || दृश् विदारणे | दर्वा जनपदः । दर्वो हिंस्रः ॥ पृश् पालनपूरणयोः । पर्वो रुद्रः काण्डं च ।। शपी आक्रोशे । शप्व आक्रोशः ॥ इथेंड् गतौ । श्यावो वर्णः ।। शोच तक्षणे | शावस्तिर्यग्बालः ।। लांक आदाने | लावः पक्षिजातिः || पदिंच गतौ । पदो रथो वायुर्भूर्लोकश्च ।। इस शब्दे । इस्वो लघुः ॥ इण्क् गतौ । एवः केवलः । एवेत्यवधारणे निपातश्च ॥ ५०५ ॥
शीडापो हस्वश्च वा ।। ५०६ ॥ आभ्यां वः प्रत्ययो [भवति ] हस्वश्च वा भवति || शीडक् स्वमे | शिवं क्षेमं सुखं मोक्षपदं च । शिवा हरीतकी | शेवं धनम् । शेवोजगरः सुखकृच्च । शेवा प्रबलनिद्राविशेषो मेण्दश्च ।। आफूट व्याप्तौ । अप्वा देवायुधम् । आप्वा वायुः ।। ५०६ ॥
उर्ध च || ५०७॥ ... दि मानक्रीडनयोश्च । इत्यस्मादः प्रत्ययो भवति धकारवान्तादेशो भवति ॥ ऊर्व उद्धमा । ऊर्ध्वमुपरि पुरस्ताच्च ।। ५०७. ।।
Aho 1 Shrutagyanam