________________
४९६-२०२]
उणादिगणविवृतिः।
वलिपुषेः कलक् ॥ ४९६ ॥ आभ्यां कित्कलः प्रत्ययो भवति ॥ वलि संवरणे | वल्कलं तरुत्वक् ।। पुष पुष्टौ । पुष्कलं समयं युद्धं शोभनं हिरण्यं धान्यं च ॥ ४९६ ॥
मिगः खलश्चैञ्च ।। ४९७ ।। डुमिंग्ट प्रक्षेपणे । इत्यस्मात्खलः चकारात्कलश्च प्रत्ययौ भवत एकारधान्तादेशो भवति ॥ मेखला गिरिनितम्बो रशना च । मेकलो नर्मदाप्रभवोद्रिः।। मिग एत्ववचनमात्वबाधनार्थम् ॥ ४९७ ॥
श्रो नोन्तो हस्वश्च ॥ ४९८॥ शुश हिंसायाम् | इत्यस्मात्खलः प्रत्ययो [ भवति ] नकारोन्तो इस्वश्व भवति || शङला लोहरज्जुः । शङ्कलः शृङलं वा ॥ ४९८॥
शमिकमिपलिभ्यो बलः ॥ ४९९ ।। एभ्यो बलः प्रत्ययो भवति ॥ शमूच् उपशमे | शम्बलं पाथेयम् || कमूड कान्तौ । कम्बल ऊर्णापटः।। पल गतौ । पल्वलमकृत्रिमोदकस्थानविशेषः॥४९९॥
तुल्वलेल्वलादयः॥ ५००॥ तुल्वलादयः शब्दा वलप्रत्ययान्ता निपात्यन्ते । तुलील्योणिलुग्गुणाभावश्च । तुल्वल ऋषिः । यस्य तौल्वलिः पुत्रः ॥ इल्वलोसुरो योगस्त्येन जग्धो मत्स्यो यूपश्च । इल्वलास्तिस्रो मृगशिर शिरस्ताराः || भादिग्रहणात् शाल्वलादयो भवन्ति ॥ ५०० ॥
शीडस्तलक्पालवालण्वलण्वलाः ॥ ५०१ ॥ . शीड्क् स्वमे । इत्यस्मात्तलक् पाल वालण वलण वल इत्येते प्रत्यया भवन्ति ॥ शीतलमनुष्णम् || शेपालम् । जपादित्वात्पस्य वत्वे । शेवालम् । शैवालम् | शैवलम् । शेवलं पञ्चकमपि जलमलवाचि ॥ ५०१ ॥
रुचिकुटिकुषिकशिशालिद्रुभ्यो मलक् ॥ ५०२ ।।
एभ्यः किन्मलः प्रत्ययो भवति ॥ रुचि अभिप्रीत्याम् । रुक्मलं सुवर्णम् । न्यकादित्वात्कत्वम् ॥ कुटत् कौटिल्ये । कुड्मलं मुकुलम् ॥ कुषश् निष्कर्षे । कुष्मलं तदेव बिलं च ।। कश शब्दे । कश्मलं मलिनम् ॥ शाड्ड् श्लाघायाम् । लत्वे । शाल्मलो वृक्षविशेषः ।। द्रु गतौ । द्रुमलं वनं जलं च ।। ५०२ ॥
12
Aho ! Shrutagyanam