________________
हेमचन्द्रव्याकरणे
[४८९-४९५ तमेोन्तो दीर्घस्तु वा ।। ४८९ ॥ तमूच् काडायाम् | इत्यस्मादूलः प्रत्ययो भवति बोन्तश्च भवति दीर्घस्तु वा भवति ॥ ताम्बूलम् । तम्बूलमुभयं पूगपत्रचूर्णसंयोगः ॥ ४८९ ॥
कुलपुलकुसिभ्यः कित् ।। ४९० ॥ एभ्य ऊलः प्रत्ययो भवति स च किद्भवति ।। कुल बन्धुसंस्त्यानयोः । कुलूलः कृमिजातिः ॥ पुल महत्त्वे । पुलूलो वृक्षविशेषः ।। कुसच् श्लेषे | कुसूलः कोष्ठः ॥ ४९० ॥
दुकूलकुकूलबब्बूललालशार्दूलादयः ॥ ४९१ ।। दुकूलादयः शब्दा ऊलप्रत्ययान्ता मिपात्यन्ते ।। दुक्कोः कोन्तश्च । दुकलं क्षौमं वासः ॥ कुकूलं कारीषाग्निः ।। वधेर्बोन्तो बध । बब्बूलो वृक्षविशेषः ।। लङ्गेदर्दीर्घच | लालं बालधिः । शृणातेयॊन्तो वृद्धिश्च । शार्दूलो व्याघ्रः॥ आदिग्रहणात् मालकञ्चूलादयो भवन्ति ॥ ४९१॥
___ महेरेलः॥ ४९२ ।। मह पूजायाम् । इत्यस्मादेलः प्रत्ययो भवति ।। महेला स्त्री ।। ४९२ ।। कटिपटिकण्डिगण्डिशकिकपिचहिभ्य ओलः ॥ ४९३ ।।
एभ्य ओलः प्रत्ययो भवति || कटे वर्षावरणयोः । कटोलः कटविशेषो वादित्रविशेषश्च । कटोलौषधिः ।। पट गतौ । पटोला वल्लीविशेषः ॥ कडु मदे । कण्डोलो विदलभाजनविशेषः ॥ गडु वदनैकदेशे | गण्डोलः कृमिविशेषः । शकुंट शक्तौ । शकोलः शक्तः ।। कपिः सौत्रः । कपोलो गण्डः ॥ वह कल्कने | चहोल उपद्रवः ॥ ४९३ ॥
ग्रह्याद्यः कित् ॥ ४९४ ॥ ग्रहेराकारान्तेभ्यश्च धातुभ्यः किदोलः प्रत्ययो भवति ।। ग्रहीश् उपादाने । गृहोलो बालिशः ॥ कायतेः । कोलो बदरी वराहश्च ।। गायतेः । गोलो वृत्ताकृतिः । गोला गोदावरी बालरमणकाष्ठं च ॥ पातेः । पोला तालाख्यं कपाटबन्धनं परिखा च ॥ लातेः । लोलश्वपलः ॥ ददातेर्दयतेद्यनेर्वा । दोला प्रेक्षणम् ।।४९४।।
पिञ्छोलकल्लोलककोलमकोलादयः ॥ ४९५ ॥ पिञ्छोलादयः शब्दा ओलप्रत्ययान्ता निपात्यन्ते ॥ पीडेः पिञ्छ् च । पिछोलो वादिनविशेषः॥ कलेर्लोन्सश्च । कल्लोल ऊर्मिः ॥ कचिमच्योः कादिः । ककोली लताविशेषः ॥ मक्कोलः सुधाविशेषः ।। मादिग्रहणादन्येपि ॥ ४९५ ॥
Ahol Shrutagyanam