________________
उणादिगणविवृतिः ।
हृषिवृतिचटिपटिश किशङ्कितण्डिमल्कण्टिभ्य उलः || ४८५ ॥
एभ्य उल: प्रत्ययो भवति ॥ हृषच् तुष्टौ । हषू अलीके वा । हर्षुलो हर्षवान्कामी मृगश्च | वृतूड् वर्तने । वर्तुलो वृत्तः || चटण् भेदे | चटुलञ्चञ्चलः || पट गतौ । पटुलो वाग्मी || शकुं शक्तौ । शकुलो मत्स्यः || शकुड् शङ्कायाम् । शङ्कुला क्रीडनशङ्कुर्बन्धनभाण्डमायुधं च || तडुड् ताडने | तण्डुलो निस्तुषो श्रीह्यादिः || मगु गतौ | मङ्गुलं न्यायापेतम् || कटुड् शोके | उत्पूर्वः | उत्कण्ठुल उत्कण्ठावान् ॥ ४८५ ॥
४८५-४८८]
१.
स्थावङ्किवंहिविन्दिभ्यः किन्नलुक् च ॥। ४८६ ॥
एभ्यः किदुलः प्रत्ययो [ भवति ] नकारस्य च लुग्भवति ॥ ष्ठां गतिनिवृत्तौ | स्थूलं पटकुटीविशेषः || वकुड् कौटिल्ये | वकुलः केसर ऋषिश्व || बहुड् वृद्धौ | बहुलं प्रचुरम् । बहुल: प्रासकः कृष्णपक्षश्च | बहुलाः कृत्तिकाः | बहुला गौः || विदु अवयवे | विदुलो वेतसः || ४८६ ॥
कुमुलतुमुलनिचुलवञ्जुलमञ्जुल पृथुलविशंस्थुलाङ्गुलमुकुलशष्कुलादयः ।। ४८७ ॥
एत उलप्रत्ययान्ता निपात्यन्ते ॥ कमितम्योरत उच्च । कुमुलं कुसुमं हिरण्यं च । कुमुलः शिशुः कान्तश्च ॥ तुमुलं व्यामिश्रयुद्धं संकुलं च ॥ निजेः किचश्व | निचुली वञ्जुलः || वजेः स्वरान्नोन्तश्च | वञ्चुलो निचुलः ॥ मञ्जिः सौत्रः । मञ्जुलं मनोज्ञम् || प्रथेः पृथ् च | पृथुलो विस्तीर्णः || विपूर्वात् शंसेस्थोन्तश्च | विशंस्थुलो व्यमः || अञ्जेर्गव | अङ्गुलमष्टयवप्रमाणम् || मुचेः किकश्च | मुकुल विकसितपुष्पम् ॥ शके: स्वरात् षोन्तश्च । शष्कुली भक्ष्यविशेषः कर्णावयवश्व || आदिग्रहणात् लकुलवल्गुलादयो भवन्ति || ४८७ ||
पिचिमञ्जिकण्डिगण्डबलिवधिवञ्चिभ्य उलः ॥ ४८८ ॥
एभ्य ऊलः प्रत्ययो भवति ॥ पिजुण् हिंसाबलदान निकेतनेषु । पिलो हस्तिबंधनपाशो राशिः कुलपतिश्व || मञ्चिः सौत्रः । मञ्जुला मृदुभाषिणी || कडुड् मदे | कण्डूलोशिष्टो जनः || गडु वदनैकदेशे । गण्डूल: कृमिजातिः || बल प्राणनधान्यावरोधयोः | बलूल ऋषिर्मेघो मासश्व || वधि बन्धने । वधूलो हस्ती घातको रसायनं तन्त्रकारभ || वञ्चिण् प्रलम्भने । बच्चूलो हस्ती मत्स्यमारपक्षी च ॥ ४८८ ।।
Aho! Shrutagyanam