________________
हेमचन्द्रव्याकरणे
[४८०-४८४ चात्वालकङ्कालहिन्तालवेतालजम्बालशब्दालममाप्तालादयः।। ४८०॥ - एत आलप्रत्ययान्ता निपात्यन्ते ।। चतेर्वोन्तो दीर्घश्च । चात्वालो यज्ञगर्तः।। कचेः स्वरानोन्तः कश्च । कङ्कालः कलेवरम् || हिंसेस्तश्च । हिन्तालो वृक्षविशेषः॥ वियस्तोन्तो गुणश्व | वेतालो रजनीचरविशेषः ॥ जनेर्बोन्तश्च । जम्बालः कर्दमः शैवलं च ॥ शमे []षेर्वा शब्दभावश्च | शब्दालः शब्दनशीलः || मवेर्वलोपो माप्तथान्तः । ममाप्तालो मतिः स्नेहः पुत्रादिषु स्नेहबन्धनं च || आदिशब्दात् चक्रवालकरवालालवालादयो भवन्ति ॥ ४८० ॥ कल्यनिमहिद्रमिजटिभटि कुटिचण्डिशण्डितुण्डिपिण्डिभू
कुकिभ्य इलः ।। ४८१ ॥ एभ्य इलः प्रत्ययो भवति ।। कलि शब्दसंख्यानयोः । कलिलं गहनं पापमात्माधिष्ठितं च शुक्रातवम् ॥ अनक् प्राणने । अनिलो वायुः ॥ मह पूजा. याम् । महिला स्त्री || द्रम गतौ । द्रमिलास्त्रैराज्यवासिनः || जट झट संघाते । जटिलो जटावान् ॥ भट भृतौ । भटिलः श्वा सेवकश्च ।। कुटत् कौटिल्ये । कुटिलं वक्रम् || चडुड् कोपे | चण्डिलः श्वा क्रोधनो नापितश्च || शडुड् रुजायाम् | शण्डिल ऋषिः ।। तुडुड् तोडने | तुण्डिलो वाग्जाली ।। पिडुड् संघाते । पिण्डिलो मेघो हिंस्रो हिमो गणकश्च ॥ भू सत्तायाम् । भविलो मुनिः समर्थो गृहं बहुनेता च ॥ कुकि आदाने । कोकिलः परभृतः ।। ४८१ ॥
भण्डेर्नलुक् च वा ॥ ४८२॥ भडुड् परिभाषणे । इत्यस्मादिलः प्रत्ययो भवति नकारस्य च लुग्वा भवति || भडिल ऋषिः पिशाचः शत्रुश्च ॥ भण्डिलः श्वा दूत ऋषिश्च ॥४८२।।
__गुपिमिथिध्रुभ्यः कित् ॥ ४८३ ।। एभ्यः किदिलः प्रत्ययो भवति ।। गुपौ रक्षणे । गुपितं गहनम् ॥ मिथन् मेधासियोः । मिथिला नगरी ॥ ध्रु स्थैर्ये च । ध्रुविल ऋषिः ।। ४८३ ॥
स्थण्डिलकपिलविचकिलादयः ॥ ४८४ ॥ स्थण्डिलादयः शब्दा इलप्रत्ययान्ता निपात्यन्ते || स्थलेः स्थण्ड् च । स्थण्डिलं व्रतिशयनवेदिका ॥ कवेः पच | कपिलो वर्ण ऋषिश्च ॥ विचेरको
नश्च । विचकिलो मल्लिकाविशेषः ।। आदिग्रहणात् गोभिलनिकुम्भिलादयोपि भवन्ति ॥ ४८४॥
Aho 1 Shrutagyanam