________________
४७६-४७९]
उणादिगणविवृतिः। . करालमुच्चम् ।। मृत् प्राणत्यागे । मरालो हंसो महांश्च ।। वृग्ट वरणे । वरालो वदान्यः ।। तनूयी विस्तारे । तनालं जलाशयः || तमूच् काायाम् । तमालो वृक्षो व्यालश्च ।। चषी भक्षणे । चषालं यूपशिरास द्रव्यम् ।। चप सान्त्वने । चपालं यज्ञद्रव्यम् || कपिः सौत्रः । कपालं घटाद्यवयवः शिरोस्थि च ॥ कील बन्धे । कीलालं मद्यं जलमसक् च ।। पल गती | पलालमकणो व्रीह्यादिः ॥ बल प्राणनधान्यावरोधयोः । बलालो वायुः ।। पचुड् व्यक्तीकरणे | पञ्चाल ऋषी राजा च । पञ्चाला जनपदः ।। मगु गतौ । मङ्गालो देशः॥ गडु वदनैकदेशे । गण्डालो मत्तहस्ती ।। मडु भूषायाम् । मण्डाल ऋषिः ॥ चडुड् कोपे । चण्डालः श्वपचः । अकृतज्ञमकार्यज्ञं दीर्घरोषमनार्जवम् । चतुरो विद्धि चण्डालाजन्मना चेति पञ्चमम् ।। १॥ तडुड् ताडने | तण्डालः क्षुपः ॥ पिडुड् संघाते । पिण्डालः कन्दजातिः।। टुनदु समृद्धौ । नन्दालो राजा ।। णद अव्यक्ते शब्दे । नदालो नादवान् ।। शकुंट शक्तौ । शकाला जनपदो मूर्खधनी च ॥ ४७५ ॥
कुलिपिलिविशिविडिमणिकुणिपीपीभ्यः कित् ।। ४७६ ॥
एभ्यः किदालः प्रत्ययो भवति || कुल बन्धुसंस्त्यानयोः । कुलालः कुम्भकारः ॥ पिलण् क्षेपे । पिलालं श्लिष्टम् ।। विशंत् प्रवेशने | विशालं विस्तीर्णम् ।। विड आक्रोशे । विडालो मार्जारः । लत्वे | विलालः स एव ।। मृणत् हिंसायाम् । मृणालं बिसम् । कुणत शब्दोपकरणयोः । कुणालः कृतमालः कटविशेषश्च | कुणाल नगरं कठिनं च ॥ पींड्च् पाने । पियालो वृक्षः । पियालं शाकं वीरुच्च ॥ पीड्च् प्रीती । प्रियालः पियालः ॥ ४७६ ॥ -
भजेः कगौ च ।। ४७७ ॥ भजी सेवायाम् । इत्यस्मात्किदालः प्रत्ययो भवति कगो चान्तादेश भवतः ॥ भकालम् । भगालमुभयं कपालम् ॥ ४७७॥
सर्तेर्गोन्तश्च ।। ४७८ ॥ सुं गतौ । इत्यस्मात्किदालः प्रत्ययो भवनि गकारोन्तथ[ भवति ॥ ] सृगालः क्रोष्टा ।। ४७८॥
पतिकृलूभ्यो णित् ।। ४७९॥ एभ्यो णिदालः प्रत्ययो भवति ॥ पतु गतौ । पातालं रसातलम् ॥ डुकंग करणे । कारालं लेपदव्यम् ॥ लूगश् छेदने । लावाल सान्तः ॥४७९ ॥
Aho! Shrutagyanam